Click on words to see what they mean.

ब्राह्मण उवाच ।शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १ ॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २ ॥
पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३ ॥
यथा कर्मसमादिष्टं काममन्युसमावृतः ।नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४ ॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् ।क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् ॥ ५ ॥
सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते ।संप्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६ ॥
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७ ॥
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥ ८ ॥
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९ ॥
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् ।एवमेव शरीराणि प्रकाशयति चेतना ॥ १० ॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११ ॥
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२ ॥
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै ।आवर्तमानो जातीषु तथान्योन्यासु सत्तम ॥ १३ ॥
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४ ॥
संयमश्चानृशंस्यं च परस्वादानवर्जनम् ।व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५ ॥
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६ ॥
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७ ॥
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८ ॥
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९ ॥
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २० ॥
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा ।संसारतारणं ह्यस्य कालेन महता भवेत् ॥ २१ ॥
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२ ॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३ ॥
शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४ ॥
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५ ॥
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६ ॥
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः ।स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः ॥ २७ ॥
तस्य कालपरीमाणमकरोत्स पितामहः ।भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८ ॥
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९ ॥
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।कायं चामेध्यसंघातं विनाशं कर्मसंहितम् ॥ ३० ॥
यच्च किंचित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१ ॥
जातीमरणरोगैश्च समाविष्टः प्रधानवित् ।चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२ ॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३ ॥
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४ ॥
« »