Click on words to see what they mean.

युधिष्ठिर उवाच ।आरामाणां तडागानां यत्फलं कुरुनन्दन ।तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥ १ ॥
भीष्म उवाच ।सुप्रदर्शा वनवती चित्रधातुविभूषिता ।उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ॥ २ ॥
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् ।औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ ३ ॥
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः ।त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ४ ॥
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् ।कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ॥ ५ ॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ॥ ६ ॥
चतुर्विधानां भूतानां तडागमुपलक्षयेत् ।तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ ७ ॥
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः ।स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ८ ॥
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः ।या च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥ ९ ॥
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति ।अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ १० ॥
शरत्काले तु सलिलं तडागे यस्य तिष्ठति ।गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥ ११ ॥
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति ।स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १२ ॥
यस्य वै शैशिरे काले तडागे सलिलं भवेत् ।अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ॥ १३ ॥
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् ।अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ १४ ॥
निदाघकाले पानीयं तडागे यस्य तिष्ठति ।वाजपेयसमं तस्य फलं वै मुनयो विदुः ॥ १५ ॥
स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।गावः पिबन्ति पानीयं साधवश्च नराः सदा ॥ १६ ॥
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् ।मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥ १७ ॥
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च ।तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ १८ ॥
दुर्लभं सलिलं तात विशेषेण परत्र वै ।पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ १९ ॥
तिलान्ददत पानीयं दीपान्ददत जाग्रत ।ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ॥ २० ॥
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥ २१ ॥
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् ।अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ॥ २२ ॥
स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः ।वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ २३ ॥
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥ २४ ॥
लभते नाम लोके च पितृभिश्च महीयते ।देवलोकगतस्यापि नाम तस्य न नश्यति ॥ २५ ॥
अतीतानागते चोभे पितृवंशं च भारत ।तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ॥ २६ ॥
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥ २७ ॥
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् ।छायया चातिथींस्तात पूजयन्ति महीरुहाः ॥ २८ ॥
किंनरोरगरक्षांसि देवगन्धर्वमानवाः ।तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥ २९ ॥
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ॥ ३० ॥
तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा ।पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥ ३१ ॥
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः ।एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ ३२ ॥
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् ।यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ ३३ ॥
« »