Click on words to see what they mean.

युधिष्ठिर उवाच ।गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥ १ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥ २ ॥
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् ।पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥ ३ ॥
वासुदेव उवाच ।गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥ ४ ॥
पृथिव्युवाच ।ऋषयः पितरो देवा मनुष्याश्चैव माधव ।इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥ ५ ॥
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् ।छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ।तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥ ६ ॥
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ।कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥ ७ ॥
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥ ८ ॥
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ।अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥ ९ ॥
प्रजानां पतये चैव पृथग्घोमो विधीयते ।तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥ १० ॥
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च ।सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥ ११ ॥
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ।मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ।मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥ १२ ॥
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥ १३ ॥
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये ।अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥ १४ ॥
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः ।तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥ १५ ॥
पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः ।वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥ १६ ॥
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि ।अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥ १७ ॥
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ १८ ॥
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥ १९ ॥
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥ २० ॥
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥ २१ ॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ २२ ॥
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः ।स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥ २३ ॥
भीष्म उवाच ।इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।तथा चकार सततं त्वमप्येवं समाचर ॥ २४ ॥
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप ।इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ २५ ॥
« »