Click on words to see what they mean.

युधिष्ठिर उवाच ।एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः ।जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥ १ ॥
भीष्म उवाच ।तथा प्रयाचमानस्य मुनिरग्निसमप्रभः ।जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ २ ॥
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् ।कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ॥ ३ ॥
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः ।कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥ ४ ॥
जमदग्निरुवाच ।स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा ।अवश्यं विनयाधानं कार्यमद्य मया तव ॥ ५ ॥
अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर ।तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥ ६ ॥
सूर्य उवाच ।असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर ।अपकारिणं तु मां विद्धि भगवञ्शरणागतम् ॥ ७ ॥
भीष्म उवाच ।ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् ।न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥ ८ ॥
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले ।सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥ ९ ॥
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च ।एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥ १० ॥
भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् ।सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ॥ ११ ॥
एतस्य त्वपनीतस्य समाधिं तात चिन्तय ।यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥ १२ ॥
भीष्म उवाच ।एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः ।अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ॥ १३ ॥
सूर्य उवाच ।महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् ।प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ॥ १४ ॥
अद्यप्रभृति चैवैतल्लोके संप्रचरिष्यति ।पुण्यदानेषु सर्वेषु परमक्षय्यमेव च ॥ १५ ॥
भीष्म उवाच ।उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् ।पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥ १६ ॥
तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् ।धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥ १७ ॥
छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये ।शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ १८ ॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिः ।अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥ १९ ॥
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।स्नातकाय महाबाहो संशिताय द्विजातये ॥ २० ॥
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् ।गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥ २१ ॥
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् ।छत्रोपानहदानस्य फलं भरतसत्तम ॥ २२ ॥
« »