Click on words to see what they mean.

भीष्म उवाच ।अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः ।व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥ १ ॥
अथापश्यन्सुपीनांसपाणिपादमुखोदरम् ।परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ॥ २ ॥
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा ।भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥ ३ ॥
वसिष्ठ उवाच ।नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् ।सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ॥ ४ ॥
अत्रिरुवाच ।नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् ।कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ॥ ५ ॥
विश्वामित्र उवाच ।नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः ।अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ॥ ६ ॥
जमदग्निरुवाच ।नैतस्येह यथास्माकं भक्तमिन्धनमेव च ।संचिन्त्य वार्षिकं किंचित्तेन पीवाञ्शुनःसखः ॥ ७ ॥
कश्यप उवाच ।नैतस्येह यथास्माकं चत्वारश्च सहोदराः ।देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ॥ ८ ॥
भरद्वाज उवाच ।नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः ।शोको भार्यापवादेन तेन पीवाञ्शुनःसखः ॥ ९ ॥
गौतम उवाच ।नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् ।एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ॥ १० ॥
भीष्म उवाच ।अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः ।अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥ ११ ॥
परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् ।अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥ १२ ॥
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते ।आददानाः समुद्धृत्य मूलानि च फलानि च ॥ १३ ॥
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् ।शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥ १४ ॥
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् ।वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥ १५ ॥
नानाविधैश्च विहगैर्जलप्रकरसेविभिः ।एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥ १६ ॥
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना ।यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥ १७ ॥
शुनःसखसहायास्तु बिसार्थं ते महर्षयः ।पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥ १८ ॥
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् ।स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥ १९ ॥
एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् ।पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥ २० ॥
यातुधान्युवाच ।यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन ।आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ॥ २१ ॥
ऋषय ऊचुः ।सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः ।भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ॥ २२ ॥
यातुधान्युवाच ।समयेन बिसानीतो गृह्णीध्वं कामकारतः ।एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥ २३ ॥
भीष्म उवाच ।विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् ।अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥ २४ ॥
अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै ।अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥ २५ ॥
यातुधान्युवाच ।यथोदाहृतमेतत्ते मयि नाम महामुने ।दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥ २६ ॥
वसिष्ठ उवाच ।वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि ।वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ॥ २७ ॥
यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ २८ ॥
कश्यप उवाच ।कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः ।काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥ २९ ॥
यातुधान्युवाच ।यथोदाहृतमेतत्ते मयि नाम महामुने ।दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥ ३० ॥
भरद्वाज उवाच ।भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् ।भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ॥ ३१ ॥
यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ३२ ॥
गौतम उवाच ।गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते ।विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ॥ ३३ ॥
यातुधान्युवाच ।यथोदाहृतमेतत्ते मयि नाम महामुने ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ३४ ॥
विश्वामित्र उवाच ।विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा ।विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ॥ ३५ ॥
यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ३६ ॥
जमदग्निरुवाच ।जाजमद्यजजा नाम मृजा माह जिजायिषे ।जमदग्निरिति ख्यातमतो मां विद्धि शोभने ॥ ३७ ॥
यातुधान्युवाच ।यथोदाहृतमेतत्ते मयि नाम महामुने ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ३८ ॥
अरुन्धत्युवाच ।धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् ।मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥ ३९ ॥
यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ४० ॥
गण्डोवाच ।गण्डं गण्डं गतवती गण्डगण्डेति संज्ञिता ।गण्डगण्डेव गण्डेति विद्धि मानलसंभवे ॥ ४१ ॥
यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ४२ ॥
पशुसख उवाच ।सखा सखे यः सख्येयः पशूनां च सखा सदा ।गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे ॥ ४३ ॥
यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ४४ ॥
शुनःसख उवाच ।एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे ।शुनःसखसखायं मां यातुधान्युपधारय ॥ ४५ ॥
यातुधान्युवाच ।नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा ।तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥ ४६ ॥
शुनःसख उवाच ।सकृदुक्तं मया नाम न गृहीतं यदा त्वया ।तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥ ४७ ॥
भीष्म उवाच ।सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा ।कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ॥ ४८ ॥
शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् ।भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥ ४९ ॥
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च ।यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥ ५० ॥
श्रमेण महता युक्तास्ते बिसानि कलापशः ।तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ ५१ ॥
अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् ।नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ॥ ५२ ॥
ऋषय ऊचुः ।केन क्षुधाभिभूतानामस्माकं पापकर्मणा ।नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥ ५३ ॥
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः ।त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥ ५४ ॥
त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् ।क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥ ५५ ॥
अत्रिरुवाच ।स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु ।अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥ ५६ ॥
वसिष्ठ उवाच ।अनध्यायपरो लोके शुनः स परिकर्षतु ।परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ॥ ५७ ॥
शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु ।अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥ ५८ ॥
कश्यप उवाच ।सर्वत्र सर्वं पणतु न्यासलोपं करोतु च ।कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ ५९ ॥
वृथामांसं समश्नातु वृथादानं करोतु च ।यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ ६० ॥
भरद्वाज उवाच ।नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च ।ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥ ६१ ॥
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च ।जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥ ६२ ॥
जमदग्निरुवाच ।पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् ।अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥ ६३ ॥
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् ।अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥ ६४ ॥
गौतम उवाच ।अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु ।विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥ ६५ ॥
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः ।तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥ ६६ ॥
विश्वामित्र उवाच ।जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः ।अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥ ६७ ॥
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः ।कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥ ६८ ॥
वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः ।अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ॥ ६९ ॥
अरुन्धत्युवाच ।नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः ।एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥ ७० ॥
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये ।अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ॥ ७१ ॥
गण्डोवाच ।अनृतं भाषतु सदा साधुभिश्च विरुध्यतु ।ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ ७२ ॥
साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह ।विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥ ७३ ॥
पशुसख उवाच ।दास्य एव प्रजायेत सोऽप्रसूतिरकिंचनः ।दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ ७४ ॥
शुनःसख उवाच ।अध्वर्यवे दुहितरं ददातु च्छन्दोगे वा चरितब्रह्मचर्ये ।आथर्वणं वेदमधीत्य विप्रः स्नायीत यो वै हरते बिसानि ॥ ७५ ॥
ऋषय ऊचुः ।इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः ।त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥ ७६ ॥
शुनःसख उवाच ।न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः ।सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥ ७७ ॥
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत ।परीक्षार्थं भगवतां कृतमेतन्मयानघाः ।रक्षणार्थं च सर्वेषां भवतामहमागतः ॥ ७८ ॥
यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी ।वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ॥ ७९ ॥
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा ।तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ॥ ८० ॥
अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः ।उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥ ८१ ॥
भीष्म उवाच ।ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् ।सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥ ८२ ॥
एवमेते महात्मानो भोगैर्बहुविधैरपि ।क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ।नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥ ८३ ॥
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् ।एष धर्मः परो राजन्नलोभ इति विश्रुतः ॥ ८४ ॥
इदं नरः सच्चरितं समवायेषु कीर्तयेत् ।सुखभागी च भवति न च दुर्गाण्यवाप्नुते ॥ ८५ ॥
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा ।यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ ८६ ॥
« »