Click on words to see what they mean.

भीष्म उवाच ।अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ १ ॥
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम ।राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ २ ॥
ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त ।चराम सर्वे पृथिवीं पुण्यतीर्थां तन्नः कार्यं हन्त गच्छाम सर्वे ॥ ३ ॥
शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथागस्त्यो नारदपर्वतौ च ।भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् ॥ ४ ॥
ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः ।शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥ ५ ॥
जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्र ।तीर्थानि सर्वाणि परिक्रमन्तो माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥ ६ ॥
सर्वेषु तीर्थेष्वथ धूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् ।देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः ॥ ७ ॥
केचिद्बिसान्यखनंस्तत्र राजन्नन्ये मृणालान्यखनंस्तत्र विप्राः ।अथापश्यन्पुष्करं ते ह्रियन्तं ह्रदादगस्त्येन समुद्धृतं वै ॥ ८ ॥
तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं मे सुजातम् ।युष्माञ्शङ्के दीयतां पुष्करं मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ ९ ॥
शृणोमि कालो हिंसते धर्मवीर्यं सेयं प्राप्ता वर्धते धर्मपीडा ।पुराधर्मो वर्धते नेह यावत्तावद्गच्छामि परलोकं चिराय ॥ १० ॥
पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलाञ्श्रावयन्ति ।पुरा राजा व्यवहारानधर्म्यान्पश्यत्यहं परलोकं व्रजामि ॥ ११ ॥
पुरावरान्प्रत्यवरान्गरीयसो यावन्नरा नावमंस्यन्ति सर्वे ।तमोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय ॥ १२ ॥
पुरा प्रपश्यामि परेण मर्त्यान्बलीयसा दुर्बलान्भुज्यमानान् ।तस्माद्यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥ १३ ॥
तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः ।मिथ्याभिषङ्गो भवता न कार्यः शपाम तीक्ष्णाञ्शपथान्महर्षे ॥ १४ ॥
ते निश्चितास्तत्र महर्षयस्तु संमन्यन्तो धर्ममेवं नरेन्द्र ।ततोऽशपञ्शपथान्पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः ॥ १५ ॥
भृगुरुवाच ।प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् ।खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ १६ ॥
वसिष्ठ उवाच ।अस्वाध्यायपरो लोके श्वानं च परिकर्षतु ।पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥ १७ ॥
कश्यप उवाच ।सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च ।कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥ १८ ॥
गौतम उवाच ।जीवत्वहंकृतो बुद्ध्या विपणत्वधमेन सः ।कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥ १९ ॥
अङ्गिरा उवाच ।अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु ।ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥ २० ॥
धुन्धुमार उवाच ।अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु ।एकः संपन्नमश्नातु यस्ते हरति पुष्करम् ॥ २१ ॥
पूरुरुवाच ।चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु ।श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥ २२ ॥
दिलीप उवाच ।उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः ।तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥ २३ ॥
शुक्र उवाच ।पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् ।प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥ २४ ॥
जमदग्निरुवाच ।अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् ।श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ २५ ॥
शिबिरुवाच ।अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च ।तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ॥ २६ ॥
ययातिरुवाच ।अनृतौ जटी व्रतिन्यां वै भार्यायां संप्रजायतु ।निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥ २७ ॥
नहुष उवाच ।अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः ।विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥ २८ ॥
अम्बरीष उवाच ।नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ॥ २९ ॥
नारद उवाच ।गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् ।गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥ ३० ॥
नाभाग उवाच ।अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु ।शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ॥ ३१ ॥
कविरुवाच ।पदा स गां ताडयतु सूर्यं च प्रति मेहतु ।शरणागतं च त्यजतु यस्ते हरति पुष्करम् ॥ ३२ ॥
विश्वामित्र उवाच ।करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः ।ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥ ३३ ॥
पर्वत उवाच ।ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु ।शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥ ३४ ॥
भरद्वाज उवाच ।सर्वपापसमादानं नृशंसे चानृते च यत् ।तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥ ३५ ॥
अष्टक उवाच ।स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् ।अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ॥ ३६ ॥
गालव उवाच ।पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् ।दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥ ३७ ॥
अरुन्धत्युवाच ।श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः ।एका स्वादु समश्नातु या ते हरति पुष्करम् ॥ ३८ ॥
वालखिल्या ऊचुः ।एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु ।धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ॥ ३९ ॥
पशुसख उवाच ।अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः ।परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥ ४० ॥
सुरभ्युवाच ।बाल्वजेन निदानेन कांस्यं भवतु दोहनम् ।दुह्येत परवत्सेन या ते हरति पुष्करम् ॥ ४१ ॥
भीष्म उवाच ।ततस्तु तैः शपथैः शप्यमानैर्नानाविधैर्बहुभिः कौरवेन्द्र ।सहस्राक्षो देवराट्संप्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ ४२ ॥
अथाब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषिं जातरोषम् ।ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये यत्तन्निबोधेह ममाद्य राजन् ॥ ४३ ॥
शक्र उवाच ।अध्वर्यवे दुहितरं ददातु च्छन्दोगे वा चरितब्रह्मचर्ये ।आथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति ॥ ४४ ॥
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः ।ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥ ४५ ॥
अगस्त्य उवाच ।आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन ।दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥ ४६ ॥
इन्द्र उवाच ।न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै ।धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥ ४७ ॥
धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः ।आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ ४८ ॥
तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम ।अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥ ४९ ॥
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् ।जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥ ५० ॥
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः ।पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ॥ ५१ ॥
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि ।न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥ ५२ ॥
न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह ।विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥ ५३ ॥
यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् ।स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ ५४ ॥
« »