Click on words to see what they mean.

युधिष्ठिर उवाच ।पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् ।पावनं परमं चैव तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् ।धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥ २ ॥
न हि पुण्यतमं किंचिद्गोभ्यो भरतसत्तम ।एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥ ३ ॥
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै ।दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ॥ ४ ॥
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा ।गावो ददन्तः सततं सहस्रशतसंमिताः ।गताः परमकं स्थानं देवैरपि सुदुर्लभम् ॥ ५ ॥
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥ ६ ॥
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः ।अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ।पितरं परिपप्रच्छ दृष्टलोकपरावरम् ॥ ७ ॥
को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते ।किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ॥ ८ ॥
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ।किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥ ९ ॥
दानानामुत्तमं किं च किं च सत्रमतः परम् ।पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ॥ १० ॥
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् ।पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥ ११ ॥
व्यास उवाच ।गावः प्रतिष्ठा भूतानां तथा गावः परायणम् ।गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥ १२ ॥
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः ।शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥ १३ ॥
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह ।ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥ १४ ॥
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् ।नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥ १५ ॥
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः ।पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ।गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥ १६ ॥
ये चैताः संप्रयच्छन्ति साधवो वीतमत्सराः ।ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ।गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥ १७ ॥
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः ।पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥ १८ ॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥ १९ ॥
रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः ।तरुणादित्यसंकाशैर्भान्ति तत्र जलाशयाः ॥ २० ॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥ २१ ॥
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः ।संतानकवनैः फुल्लैर्वृक्षैश्च समलंकृताः ॥ २२ ॥
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ २३ ॥
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥ २४ ॥
सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः ।सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥ २५ ॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥ २६ ॥
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर ।सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥ २७ ॥
विमानेषु विचित्रेषु रमणीयेषु भारत ।मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥ २८ ॥
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः ।एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥ २९ ॥
यासामधिपतिः पूषा मारुतो बलवान्बली ।ऐश्वर्ये वरुणो राजा ता मां पान्तु युगंधराः ॥ ३० ॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥ ३१ ॥
गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः ।तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥ ३२ ॥
न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः ।अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ।दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ॥ ३३ ॥
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् ।यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥ ३४ ॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ॥ ३५ ॥
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ।गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ।त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥ ३६ ॥
निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः ।ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥ ३७ ॥
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् ।देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ॥ ३८ ॥
गावः पवित्राः पुण्याश्च पावनं परमं महत् ।ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥ ३९ ॥
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥ ४० ॥
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि ।विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥ ४१ ॥
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् ।त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ॥ ४२ ॥
पुत्रकामश्च लभते पुत्रं धनमथापि च ।पतिकामा च भर्तारं सर्वकामांश्च मानवः ।गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ॥ ४३ ॥
एवमेता महाभागा यज्ञियाः सर्वकामदाः ।रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥ ४४ ॥
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना ।पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥ ४५ ॥
« »