Click on words to see what they mean.

युधिष्ठिर उवाच ।विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो ।प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥ १ ॥
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते ।नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥ २ ॥
दमस्येह फलं किं च वेदानां धारणे च किम् ।अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥ ३ ॥
अप्रतिग्राहके किं च फलं लोके पितामह ।तस्य किं च फलं दृष्टं श्रुतं यः संप्रयच्छति ॥ ४ ॥
स्वकर्मनिरतानां च शूराणां चापि किं फलम् ।सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥ ५ ॥
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा ।आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ॥ ६ ॥
एतत्सर्वमशेषेण पितामह यथातथम् ।वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥ ७ ॥
भीष्म उवाच ।यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते ।अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ॥ ८ ॥
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते ।नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ॥ ९ ॥
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च ।इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥ १० ॥
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे ।दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ॥ ११ ॥
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः ।प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥ १२ ॥
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव ।स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ॥ १३ ॥
दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः ।दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥ १४ ॥
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः ।क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ॥ १५ ॥
अदृश्यानि महाराज स्थानान्ययुतशो दिवि ।ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ॥ १६ ॥
दमेन यानि नृपते गच्छन्ति परमर्षयः ।कामयाना महत्स्थानं तस्माद्दानात्परो दमः ॥ १७ ॥
अध्यापकः परिक्लेशादक्षयं फलमश्नुते ।विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ॥ १८ ॥
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति ।गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ॥ १९ ॥
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि ।युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥ २० ॥
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् ।शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ॥ २१ ॥
शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु ।शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ॥ २२ ॥
यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे ।युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥ २३ ॥
बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे ।आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ॥ २४ ॥
तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे ।वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥ २५ ॥
गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे ।मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ॥ २६ ॥
सांख्यशूराश्च बहवो योगशूरास्तथापरे ।अरण्ये गृहवासे च शूराश्चातिथिपूजने ।सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥ २७ ॥
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् ।सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ॥ २८ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ २९ ॥
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते ।सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ॥ ३० ॥
सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा ।सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ॥ ३१ ॥
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः ।मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ।सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥ ३२ ॥
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया ।असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ॥ ३३ ॥
ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप ।आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ।न तस्य किंचिदप्राप्यमिति विद्धि जनाधिप ॥ ३४ ॥
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत ।सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥ ३५ ॥
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् ।ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥ ३६ ॥
प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु ।बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ।तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ॥ ३७ ॥
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु ।शुश्रूषते यः पितरं न चासूयेत्कथंचन ।मातरं वानहंवादी गुरुमाचार्यमेव च ॥ ३८ ॥
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् ।न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ॥ ३९ ॥
« »