Click on words to see what they mean.

इन्द्र उवाच ।जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् ।एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ॥ १ ॥
ब्रह्मोवाच ।भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते ।दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ॥ २ ॥
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः ।घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥ ३ ॥
घातकः खादको वापि तथा यश्चानुमन्यते ।यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ॥ ४ ॥
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके ।विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ॥ ५ ॥
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति ।यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ॥ ६ ॥
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते ।सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् ॥ ७ ॥
गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् ।सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ॥ ८ ॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥ ९ ॥
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो ।एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥ १० ॥
भीष्म उवाच ।एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ ।इन्द्रो दशरथायाह रामायाह पिता तथा ॥ ११ ॥
राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने ।ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ॥ १२ ॥
पारंपर्यागतं चेदमृषयः संशितव्रताः ।दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ।उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥ १३ ॥
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि ।यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥ १४ ॥
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा ।इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥ १५ ॥
« »