Click on words to see what they mean.

भीष्म उवाच ।अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने ।नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥ १ ॥
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः ।अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥ २ ॥
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः ।श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥ ३ ॥
ददृशुस्ते महाकायं कृकलासमवस्थितम् ।तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥ ४ ॥
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् ।नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥ ५ ॥
खमावृत्योदपानस्य कृकलासः स्थितो महान् ।तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥ ६ ॥
स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा ।नृगस्तदात्मानमथो न्यवेदयत्पुरातनं यज्ञसहस्रयाजिनम् ॥ ७ ॥
तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम् ।कथं भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥ ८ ॥
शतं सहस्राणि शतं गवां पुनः पुनः शतान्यष्ट शतायुतानि ।त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व नु तद्गतं तव ॥ ९ ॥
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः ।प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥ १० ॥
गवां सहस्रे संख्याता तदा सा पशुपैर्मम ।सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥ ११ ॥
अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः ।ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥ १२ ॥
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ ।भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ॥ १३ ॥
शतेन शतसंख्येन गवां विनिमयेन वै ।याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥ १४ ॥
देशकालोपसंपन्ना दोग्ध्री क्षान्तातिवत्सला ।स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥ १५ ॥
कृशं च भरते या गौर्मम पुत्रमपस्तनम् ।न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥ १६ ॥
ततस्तमपरं विप्रं याचे विनिमयेन वै ।गवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥ १७ ॥
ब्राह्मण उवाच ।न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे ।सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥ १८ ॥
रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा ।न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥ १९ ॥
एतस्मिन्नेव काले तु चोदितः कालधर्मणा ।पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥ २० ॥
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् ।नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः ॥ २१ ॥
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया ।चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥ २२ ॥
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव ।ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥ २३ ॥
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो ।धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥ २४ ॥
अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः ।वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ २५ ॥
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते ।प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥ २६ ॥
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह ।तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ॥ २७ ॥
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् ।अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥ २८ ॥
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् ।विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥ २९ ॥
ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम ।वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥ ३० ॥
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता ।ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥ ३१ ॥
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते ।विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥ ३२ ॥
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः ।अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥ ३३ ॥
« »