Click on words to see what they mean.

युधिष्ठिर उवाच ।कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः ।गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥ १ ॥
केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत ।शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥ २ ॥
दत्तं किं फलवद्राजन्निह लोके परत्र च ।भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ ३ ॥
भीष्म उवाच ।इममर्थं पुरा पृष्टो नारदो देवदर्शनः ।यदुक्तवानसौ तन्मे गदतः शृणु भारत ॥ ४ ॥
नारद उवाच ।अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा ।लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ ५ ॥
अन्नेन सदृशं दानं न भूतं न भविष्यति ।तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ ६ ॥
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः ।अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥ ७ ॥
अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च ।अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ॥ ८ ॥
कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने ।दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ ९ ॥
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने ।निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ १० ॥
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् ।अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥ ११ ॥
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥ १२ ॥
नावमन्येदभिगतं न प्रणुद्यात्कथंचन ।अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ १३ ॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥ १४ ॥
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप ।यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ १५ ॥
कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने ।ब्राह्मणाय विशेषेण न स पापेन युज्यते ॥ १६ ॥
ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् ।अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ॥ १७ ॥
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा ।भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ॥ १८ ॥
अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः ।भवन्तीहाथ वामुत्र नृपते नात्र संशयः ॥ १९ ॥
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः ।अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ २० ॥
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते ।अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥ २१ ॥
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् ।विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ॥ २२ ॥
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते ।महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ॥ २३ ॥
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् ।मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ २४ ॥
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् ।अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥ २५ ॥
प्राणवांश्चापि भवति रूपवांश्च तथा नृप ।अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ २६ ॥
अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि ।प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ॥ २७ ॥
ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् ।उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ॥ २८ ॥
प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत ।सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ २९ ॥
अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत ।धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ॥ ३० ॥
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः ।अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ ३१ ॥
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः ।बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥ ३२ ॥
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा ।न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥ ३३ ॥
अन्नतः सर्वमेतद्धि यत्किंचित्स्थाणु जङ्गमम् ।त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥ ३४ ॥
अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् ।कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ॥ ३५ ॥
मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः ।तच्च मेघगतं वारि शक्रो वर्षति भारत ॥ ३६ ॥
आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः ।वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ॥ ३७ ॥
तद्यदा मेघतो वारि पतितं भवति क्षितौ ।तदा वसुमती देवी स्निग्धा भवति भारत ॥ ३८ ॥
ततः सस्यानि रोहन्ति येन वर्तयते जगत् ।मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ ३९ ॥
संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते ।अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ॥ ४० ॥
एवमन्नं च सूर्यश्च पवनः शुक्रमेव च ।एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ॥ ४१ ॥
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ ।गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ॥ ४२ ॥
भीष्म उवाच ।नारदेनैवमुक्तोऽहमदामन्नं सदा नृप ।अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥ ४३ ॥
दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो ।यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥ ४४ ॥
अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप ।भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ।नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ॥ ४५ ॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ ४६ ॥
अनेकशतभौमानि सान्तर्जलवनानि च ।वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ॥ ४७ ॥
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ॥ ४८ ॥
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ।भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ ४९ ॥
क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः ।प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः ।तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥ ५० ॥
एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् ।तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ॥ ५१ ॥
« »