Click on words to see what they mean.

युधिष्ठिर उवाच ।इदं देयमिदं देयमितीयं श्रुतिचोदना ।बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् ॥ १ ॥
भीष्म उवाच ।अति दानानि सर्वाणि पृथिवीदानमुच्यते ।अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ॥ २ ॥
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा ।भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥ ३ ॥
यावद्भूमेरायुरिह तावद्भूमिद एधते ।न भूमिदानादस्तीह परं किंचिद्युधिष्ठिर ॥ ४ ॥
अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् ।भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः ॥ ५ ॥
स्वकर्मैवोपजीवन्ति नरा इह परत्र च ।भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् ॥ ६ ॥
य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः ।पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः ॥ ७ ॥
यथा दानं तथा भोग इति धर्मेषु निश्चयः ।संग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् ॥ ८ ॥
इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् ।पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥ ९ ॥
अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् ।सैव पापं पावयति सैव पापात्प्रमोचयेत् ॥ १० ॥
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ॥ ११ ॥
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ।दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् ।तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥ १२ ॥
नाभूमिपतिना भूमिरधिष्ठेया कथंचन ।न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् ।ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् ॥ १३ ॥
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः ।भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि ।प्रेत्येह च स धर्मात्मा संप्राप्नोति महद्यशः ॥ १४ ॥
यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि ।न तस्य शत्रवो राजन्प्रशासन्ति वसुंधराम् ॥ १५ ॥
यत्किंचित्पुरुषः पापं कुरुते वृत्तिकर्शितः ।अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥ १६ ॥
येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः ।तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥ १७ ॥
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः ।यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ॥ १८ ॥
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः ।अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥ १९ ॥
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ॥ २० ॥
तपो यज्ञः श्रुतं शीलमलोभः सत्यसंधता ।गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ॥ २१ ॥
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥ २२ ॥
यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा ।अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥ २३ ॥
मृत्योर्वै किंकरो दण्डस्तापो वह्नेः सुदारुणः ।घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ २४ ॥
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः ।संतर्पयति शान्तात्मा यो ददाति वसुंधराम् ॥ २५ ॥
कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते ।भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥ २६ ॥
यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत ।एवमेव महाभाग भूमिर्भवति भूमिदम् ॥ २७ ॥
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि ।उदीर्णं वापि शरणं तथा भवति कामदः ॥ २८ ॥
ब्राह्मणं वृत्तसंपन्नमाहिताग्निं शुचिव्रतम् ।नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥ २९ ॥
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते ।तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥ ३० ॥
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः ।याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ ३१ ॥
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ ।अस्मिँल्लोके परे चैव ततश्चाजनने पुनः ॥ ३२ ॥
य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः ।श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥ ३३ ॥
कृत्यानामभिशस्तानां दुरिष्टशमनं महत् ।प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश ॥ ३४ ॥
पुनाति य इदं वेद वेद चाहं तथैव च ।प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥ ३५ ॥
अभिषिच्यैव नृपतिं श्रावयेदिममागमम् ।यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ॥ ३६ ॥
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् ।राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥ ३७ ॥
अथ येषामधर्मज्ञो राजा भवति नास्तिकः ।न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ॥ ३८ ॥
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः ।योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥ ३९ ॥
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः ।सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥ ४० ॥
तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः ।योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥ ४१ ॥
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् ।स दाता स च विक्रान्तो यो ददाति वसुंधराम् ॥ ४२ ॥
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ।ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥ ४३ ॥
यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥ ४४ ॥
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ।शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥ ४५ ॥
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च ।चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥ ४६ ॥
एषा माता पिता चैव जगतः पृथिवीपते ।नानया सदृशं भूतं किंचिदस्ति जनाधिप ॥ ४७ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ ४८ ॥
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता ।मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥ ४९ ॥
भगवन्केन दानेन स्वर्गतः सुखमेधते ।यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ॥ ५० ॥
इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः ।बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् ॥ ५१ ॥
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् ।दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥ ५२ ॥
न भूमिदानाद्देवेन्द्र परं किंचिदिति प्रभो ।विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ॥ ५३ ॥
ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः ।सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥ ५४ ॥
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् ॥ ५५ ॥
पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः ।एकादश ददद्भूमिं परित्रातीह मानवः ॥ ५६ ॥
रत्नोपकीर्णां वसुधां यो ददाति पुरंदर ।स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥ ५७ ॥
महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् ।राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥ ५८ ॥
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति ।सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥ ५९ ॥
सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् ।ददाति यः सहस्राक्ष स स्वर्गं याति मानवः ॥ ६० ॥
मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा ।सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥ ६१ ॥
भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात् ।न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥ ६२ ॥
ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् ।तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥ ६३ ॥
पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर ।न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ॥ ६४ ॥
सर्वथा पार्थिवेनेह सततं भूतिमिच्छता ।भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता ॥ ६५ ॥
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये ।समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥ ६६ ॥
सागरान्सरितः शैलान्काननानि च सर्वशः ।सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥ ६७ ॥
तडागान्युदपानानि स्रोतांसि च सरांसि च ।स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥ ६८ ॥
ओषधीः क्षीरसंपन्ना नगान्पुष्पफलान्वितान् ।काननोपलशैलांश्च ददाति वसुधां ददत् ॥ ६९ ॥
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः ।न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ ७० ॥
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् ।पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ॥ ७१ ॥
न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः ।स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ॥ ७२ ॥
आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् ।ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥ ७३ ॥
ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर ।इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥ ७४ ॥
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप ।ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन ॥ ७५ ॥
अथाश्रु पतितं तेषां दीनानामवसीदताम् ।ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥ ७६ ॥
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः ।तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ ७७ ॥
इक्षुभिः संततां भूमिं यवगोधूमसंकुलाम् ।गोश्ववाहनसंपूर्णां बाहुवीर्यसमार्जिताम् ॥ ७८ ॥
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् ।अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत् ॥ ७९ ॥
विधूय कलुषं सर्वं विरजाः संमतः सताम् ।लोके महीयते सद्भिर्यो ददाति वसुंधराम् ॥ ८० ॥
यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति ।तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ॥ ८१ ॥
ये रणाग्रे महीपालाः शूराः समितिशोभनाः ।वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥ ८२ ॥
नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः ।उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि ॥ ८३ ॥
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः ।यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥ ८४ ॥
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः ।उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ॥ ८५ ॥
शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः ।भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ॥ ८६ ॥
आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ ।भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ॥ ८७ ॥
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः ।अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥ ८८ ॥
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः ।नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ॥ ८९ ॥
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् ।वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥ ९० ॥
य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् ।न तस्य रक्षसां भागो नासुराणां भवत्युत ॥ ९१ ॥
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः ।तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् ॥ ९२ ॥
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ ।मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥ ९३ ॥
« »