Click on words to see what they mean.

युधिष्ठिर उवाच ।श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः ।नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ॥ २ ॥
द्वारकामनुसंप्राप्तं नारदं देवदर्शनम् ।पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ॥ ३ ॥
तस्याः संपृच्छमानाया देवर्षिर्नारदस्तदा ।आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ॥ ४ ॥
नारद उवाच ।कृत्तिकासु महाभागे पायसेन ससर्पिषा ।संतर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ॥ ५ ॥
रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा ।पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ॥ ६ ॥
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ।गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ॥ ७ ॥
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः ।नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥ ८ ॥
अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने ।यशस्वी रूपसंपन्नो बह्वन्ने जायते कुले ॥ ९ ॥
पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च ।अनालोकेषु लोकेषु सोमवत्स विराजते ॥ १० ॥
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति ।स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ॥ ११ ॥
मघासु तिलपूर्णानि वर्धमानानि मानवः ।प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥ १२ ॥
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ।भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥ १३ ॥
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् ।उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ १४ ॥
यद्यत्प्रदीयते दानमुत्तराविषये नरैः ।महाफलमनन्तं च भवतीति विनिश्चयः ॥ १५ ॥
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ।प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ॥ १६ ॥
चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत ।चरत्यप्सरसां लोके रमते नन्दने तथा ॥ १७ ॥
स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः ।प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥ १८ ॥
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ १९ ॥
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते ।न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ २० ॥
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ।नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥ २१ ॥
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः ।दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ २२ ॥
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ॥ २३ ॥
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ॥ २४ ॥
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः ।कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे ।प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ॥ २५ ॥
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् ।दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ॥ २६ ॥
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् ।धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ २७ ॥
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ।श्वेतेन याति यानेन सर्वलोकानसंवृतान् ॥ २८ ॥
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ।वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ २९ ॥
गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् ।प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ॥ ३० ॥
पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु ।सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ ३१ ॥
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति ।स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥ ३२ ॥
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ।सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥ ३३ ॥
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः ।हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले ॥ ३४ ॥
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥ ३५ ॥
भीष्म उवाच ।इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः ।देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥ ३६ ॥
« »