Click on words to see what they mean.

युधिष्ठिर उवाच ।यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च ।पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ।कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥ २ ॥
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च ।अद्भिरेव प्रदातव्या कन्या गुणवते वरे ।ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥ ३ ॥
आवाह्यमावहेदेवं यो दद्यादनुकूलतः ।शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥ ४ ॥
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः ।अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ।गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ॥ ५ ॥
धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् ।असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥ ६ ॥
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् ।प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ॥ ७ ॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर ।पैशाच आसुरश्चैव न कर्तव्यौ कथंचन ॥ ८ ॥
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ ।पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥ ९ ॥
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु ।वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ॥ १० ॥
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु ।रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥ ११ ॥
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥ १२ ॥
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् ।एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥ १३ ॥
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ ।नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥ १४ ॥
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।चतुर्थे त्वथ संप्राप्ते स्वयं भर्तारमर्जयेत् ॥ १५ ॥
प्रजनो हीयते तस्या रतिश्च भरतर्षभ ।अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥ १६ ॥
असपिण्डा च या मातुरसगोत्रा च या पितुः ।इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥ १७ ॥
युधिष्ठिर उवाच ।शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः ।बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥ १८ ॥
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह ।तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ १९ ॥
भीष्म उवाच ।यत्किंचित्कर्म मानुष्यं संस्थानाय प्रकृष्यते ।मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥ २० ॥
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च ।मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥ २१ ॥
न ह्यकामेन संवादं मनुरेवं प्रशंसति ।अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥ २२ ॥
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते ।धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥ २३ ॥
बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् ।तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथंचन ॥ २४ ॥
यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः ।तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥ २५ ॥
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् ।सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥ २६ ॥
युधिष्ठिर उवाच ।कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः ।धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा ॥ २७ ॥
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् ।अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥ २८ ॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ २९ ॥
भीष्म उवाच ।न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् ।न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ॥ ३० ॥
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ।अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः ॥ ३१ ॥
तच्च तां च ददात्येव न शुल्कं विक्रयो न सः ।प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥ ३२ ॥
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् ।ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥ ३३ ॥
तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् ।कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥ ३४ ॥
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् ।तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥ ३५ ॥
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः ।यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥ ३६ ॥
अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् ।जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ।गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥ ३७ ॥
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता ।अब्रवीदितरां कन्यामावहत्स तु कौरवः ॥ ३८ ॥
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः ।अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥ ३९ ॥
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः ।आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ॥ ४० ॥
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः ।पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ॥ ४१ ॥
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा ।लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ॥ ४२ ॥
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् ।येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥ ४३ ॥
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः ।ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥ ४४ ॥
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ।न ह्येव भार्या क्रेतव्या न विक्रेया कथंचन ॥ ४५ ॥
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः ।भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥ ४६ ॥
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः ।कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥ ४७ ॥
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः ।तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ।तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ ४८ ॥
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ।यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ।कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥ ४९ ॥
देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः ।तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥ ५० ॥
लिखन्त्येव तु केषांचिदपरेषां शनैरपि ।इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥ ५१ ॥
तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते ।सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥ ५२ ॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥ ५३ ॥
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् ।परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥ ५४ ॥
« »