Click on words to see what they mean.

युधिष्ठिर उवाच ।कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन ।तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् ॥ २ ॥
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा ।तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ॥ ३ ॥
न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किंचन ॥ ४ ॥
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत ।तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥ ५ ॥
एतत्तु नापरे चक्रुर्न परे जातु साधवः ।साधूनां पुनराचारो गरीयो धर्मलक्षणम् ॥ ६ ॥
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् ।नप्ता विदेहराजस्य जनकस्य महात्मनः ॥ ७ ॥
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ।अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ॥ ८ ॥
असदेव हि धर्मस्य प्रमादो धर्म आसुरः ।नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥ ९ ॥
भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव सः ।रतिः साधारणो धर्म इति चाह स पार्थिवः ॥ १० ॥
युधिष्ठिर उवाच ।अथ केन प्रमाणेन पुंसामादीयते धनम् ।पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ ११ ॥
भीष्म उवाच ।यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ १२ ॥
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः ।दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥ १३ ॥
ददाति हि स पिण्डं वै पितुर्मातामहस्य च ।पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥ १४ ॥
अन्यत्र जातया सा हि प्रजया पुत्र ईहते ।दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ॥ १५ ॥
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् ।विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥ १६ ॥
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः ।आसुरादधिसंभूता धर्माद्विषमवृत्तयः ॥ १७ ॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥ १८ ॥
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति ।कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥ १९ ॥
सप्तावरे महाघोरे निरये कालसाह्वये ।स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ॥ २० ॥
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥ २१ ॥
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचन ।अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः ॥ २२ ॥
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते ।एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥ २३ ॥
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः ।अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ॥ २४ ॥
« »