Click on words to see what they mean.

भीष्म उवाच ।ब्राह्मणानेव सततं भृशं संप्रतिपूजयेत् ।एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ १ ॥
एते भोगैरलंकारैरन्यैश्चैव किमिच्छकैः ।सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः ।अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ॥ २ ॥
जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः ।महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥ ३ ॥
ब्राह्मणं जातिसंपन्नं धर्मज्ञं संशितव्रतम् ।वासयेत गृहे राजन्न तस्मात्परमस्ति वै ॥ ४ ॥
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः ।पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥ ५ ॥
आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः ।सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ॥ ६ ॥
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ।देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥ ७ ॥
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ।तथैव देवता राजन्नात्र कार्या विचारणा ॥ ८ ॥
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ।न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् ॥ ९ ॥
येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः ।तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ॥ १० ॥
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ।यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥ ११ ॥
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ।आगतानागते चोभे ब्राह्मणो द्विपदां वरः ।ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया ॥ १२ ॥
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् ।न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥ १३ ॥
ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः ।कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥ १४ ॥
क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥ १५ ॥
भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् ।भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥ १६ ॥
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः ।प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥ १७ ॥
यत्किंचित्कथ्यते लोके श्रूयते पश्यतेऽपि वा ।सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥ १८ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥ १९ ॥
वासुदेव उवाच ।मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे ।केन स्वित्कर्मणा पापं व्यपोहति नरो गृही ॥ २० ॥
पृथिव्युवाच ।ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् ।ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ॥ २१ ॥
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते ।अपरेषां परेषां च परेभ्यश्चैव ये परे ॥ २२ ॥
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् ॥ २३ ॥
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति ।तथा दुश्चरितं कर्म पराभावाय कल्पते ॥ २४ ॥
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् ।तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् ॥ २५ ॥
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ ।शतक्रतुः समभवत्पश्य माधव यादृशम् ॥ २६ ॥
इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन ।ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥ २७ ॥
इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः ।साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् ॥ २८ ॥
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् ।सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ २९ ॥
« »