Click on words to see what they mean.

युधिष्ठिर उवाच ।किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह ।किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ॥ १ ॥
भीष्म उवाच ।एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ।श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥ २ ॥
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ॥ ३ ॥
एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् ।यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ॥ ४ ॥
ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् ।तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ ५ ॥
ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा ।तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ॥ ६ ॥
अभिचारैरुपायैश्च दहेयुरपि तेजसा ।निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ॥ ७ ॥
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः ।कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥ ८ ॥
विद्यन्तेषां साहसिका गुणास्तेषामतीव हि ।कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥ ९ ॥
प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे ।सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ॥ १० ॥
कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः ।चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥ ११ ॥
सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च ।विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥ १२ ॥
नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् ।धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ॥ १३ ॥
पितॄणां देवतानां च मनुष्योरगरक्षसाम् ।पुरोहिता महाभागा ब्राह्मणा वै नराधिप ॥ १४ ॥
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः ।नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥ १५ ॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥ १६ ॥
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः ।निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ।परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥ १७ ॥
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ॥ १८ ॥
शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः ।वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥ १९ ॥
द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः ।कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ॥ २० ॥
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ।श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ॥ २१ ॥
यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् ।ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥ २२ ॥
परिवादो द्विजातीनां न श्रोतव्यः कथंचन ।आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥ २३ ॥
न स जातो जनिष्यो वा पृथिव्यामिह कश्चन ।यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥ २४ ॥
दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी ।दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥ २५ ॥
« »