Click on words to see what they mean.

भीष्म उवाच ।जन्मनैव महाभागो ब्राह्मणो नाम जायते ।नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥ १ ॥
सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः ।गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥ २ ॥
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः ।गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ॥ ३ ॥
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥ ४ ॥
न वोऽन्यदिह कर्तव्यं किंचिदूर्ध्वं यथाविधि ।गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ॥ ५ ॥
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति ।प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ॥ ६ ॥
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता ।शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥ ७ ॥
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ॥ ८ ॥
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः ।अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ॥ ९ ॥
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया ।दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥ १० ॥
यच्चैव मानुषे लोके यच्च देवेषु किंचन ।सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ॥ ११ ॥
इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ ।विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥ १२ ॥
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः ।दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥ १३ ॥
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे ।वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ॥ १४ ॥
कर्पासमृदवः केचित्तथान्ये मकरस्पृशः ।विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे ॥ १५ ॥
सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे ।विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥ १६ ॥
मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा ।शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ॥ १७ ॥
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः ।वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥ १८ ॥
ब्राह्मणानां परिभवादसुराः सलिलेशयाः ।ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥ १९ ॥
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः ।अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ॥ २० ॥
न ब्राह्मणविरोधेन शक्या शास्तुं वसुंधरा ।ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥ २१ ॥
तान्पूजयस्व सततं दानेन परिचर्यया ।यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥ २२ ॥
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ ।प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ॥ २३ ॥
« »