Click on words to see what they mean.

युधिष्ठिर उवाच ।प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।गुणैः समुदितः सर्वैर्वयसा च समन्वितः ।तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥ १ ॥
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ।ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ॥ २ ॥
तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥ ३ ॥
भीष्म उवाच ।ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः ।परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥ ४ ॥
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः ।पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥ ५ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥ ६ ॥
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः ।मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥ ७ ॥
स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप ।प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ॥ ८ ॥
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥ ९ ॥
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ।उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥ १० ॥
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ।आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥ ११ ॥
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।स्वयोनिं मानयत्येष भावो भावं निगच्छति ॥ १२ ॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥ १३ ॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता ।कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥ १४ ॥
केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् ।तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥ १५ ॥
गर्दभ्युवाच ।ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥ १६ ॥
एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति ।तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ १७ ॥
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि ।कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥ १८ ॥
मतङ्ग उवाच ।अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् ।कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥ १९ ॥
ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् ।अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥ २० ॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।ततो गत्वा महारण्यमतप्यत महत्तपः ॥ २१ ॥
ततः संतापयामास विबुधांस्तपसान्वितः ।मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥ २२ ॥
तं तथा तपसा युक्तमुवाच हरिवाहनः ।मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥ २३ ॥
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि ।यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ॥ २४ ॥
मतङ्ग उवाच ।ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।गच्छेयं तदवाप्येह वर एष वृतो मया ॥ २५ ॥
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः ।ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥ २६ ॥
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते ।तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥ २७ ॥
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन ॥ २८ ॥
« »