Click on words to see what they mean.

भीष्म उवाच ।एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः ।अतिष्ठदेकपादेन वर्षाणां शतमच्युत ॥ १ ॥
तमुवाच ततः शक्रः पुनरेव महायशाः ।मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ॥ २ ॥
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव ।अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥ ३ ॥
मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् ।चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥ ४ ॥
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति ।स जायते पुल्कसो वा चण्डालो वा कदाचन ॥ ५ ॥
पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते ।स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥ ६ ॥
ततो दशगुणे काले लभते शूद्रतामपि ।शूद्रयोनावपि ततो बहुशः परिवर्तते ॥ ७ ॥
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि ।वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥ ८ ॥
ततः षष्टिगुणे काले राजन्यो नाम जायते ।राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥ ९ ॥
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् ।ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ॥ १० ॥
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ।काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥ ११ ॥
ततस्तु त्रिशते काले लभते द्विजतामपि ।तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥ १२ ॥
ततश्चतुःशते काले श्रोत्रियो नाम जायते ।श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥ १३ ॥
तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक ।अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ॥ १४ ॥
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् ।अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥ १५ ॥
मतङ्ग संप्रधार्यैतद्यदहं त्वामचूचुदम् ।वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥ १६ ॥
« »