Click on words to see what they mean.

वैशंपायन उवाच ।बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् ।पराक्रमे शक्रसममादित्यसमतेजसम् ॥ १ ॥
गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् ।भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ॥ २ ॥
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् ।आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥ ३ ॥
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः ।अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ॥ ४ ॥
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः ।उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ ५ ॥
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः ।भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ॥ ६ ॥
स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः ।नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ॥ ७ ॥
नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः ।जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः ।समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥ ८ ॥
तेषां महात्मनां पूजामागतानां युधिष्ठिरः ।भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ॥ ९ ॥
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः ।भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥ १० ॥
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् ।मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ॥ ११ ॥
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः ।अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥ १२ ॥
तानृषीन्सुमहाभागानन्तर्धानगतानपि ।पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥ १३ ॥
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः ।उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥ १४ ॥
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः ।प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥ १५ ॥
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते ।पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥ १६ ॥
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः ।धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥ १७ ॥
के देशाः के जनपदा आश्रमाः के च पर्वताः ।प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥ १८ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ १९ ॥
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् ।असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥ २० ॥
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः ।कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ॥ २१ ॥
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः ।चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः ॥ २२ ॥
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः ।प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥ २३ ॥
शिलवृत्तिरुवाच ।के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः ।प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥ २४ ॥
सिद्ध उवाच ।ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः ।येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ २५ ॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ २६ ॥
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् ।न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ २७ ॥
सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् ।गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ॥ २८ ॥
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ २९ ॥
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ।व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ ३० ॥
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ॥ ३१ ॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ ३२ ॥
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा ।तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ॥ ३३ ॥
वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः ।क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ॥ ३४ ॥
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना ।तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ ३५ ॥
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ ३६ ॥
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् ।गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ ३७ ॥
इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् ।पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ ३८ ॥
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ ३९ ॥
लम्बेतावाक्शिरा यस्तु युगानामयुतं पुमान् ।तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ ४० ॥
अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम ।तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ ४१ ॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ ४२ ॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ ४३ ॥
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये ।तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ ४४ ॥
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् ।पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ ४५ ॥
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः ।येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ॥ ४६ ॥
विनयाचारहीनाश्च अशिवाश्च नराधमाः ।ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥ ४७ ॥
यथा सुराणाममृतं पितॄणां च यथा स्वधा ।सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ ४८ ॥
उपासते यथा बाला मातरं क्षुधयार्दिताः ।श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ ४९ ॥
स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते ।स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ ५० ॥
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता ।तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ ५१ ॥
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः ।अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ ५२ ॥
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः ।मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥ ५३ ॥
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः ।बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ॥ ५४ ॥
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा ।स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ॥ ५५ ॥
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः ।गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥ ५६ ॥
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् ।पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ ५७ ॥
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् ।गङ्गां गोकुलसंबाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ ५८ ॥
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ५९ ॥
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह ।वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥ ६० ॥
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे ।पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ ६१ ॥
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता ।गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ ६२ ॥
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् ।पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥ ६३ ॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च ।स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ ६४ ॥
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् ।प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ ६५ ॥
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च ।समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ ६६ ॥
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् ।देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ ६७ ॥
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ।विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ ६८ ॥
उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः ।चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ ६९ ॥
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः ।आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ ७० ॥
गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः ।दधार शिरसा देवीं तामेव दिवि सेवते ॥ ७१ ॥
अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः ।यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥ ७२ ॥
दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः ।देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ॥ ७३ ॥
मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा ।न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥ ७४ ॥
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः ।तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥ ७५ ॥
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति ।गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥ ७६ ॥
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः ।गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ ७७ ॥
भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि ।गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ ७८ ॥
त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः ।यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ॥ ७९ ॥
वाय्वीरिताभिः सुमहास्वनाभिर्द्रुताभिरत्यर्थसमुच्छ्रिताभिः ।गङ्गोर्मिभिर्भानुमतीभिरिद्धः सहस्ररश्मिप्रतिमो विभाति ॥ ८० ॥
पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् ।गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् ॥ ८१ ॥
अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा ।देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥ ८२ ॥
ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् ।त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ ८३ ॥
यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः ।तद्भाविताः स्पर्शने दर्शने यस्तस्मै देवा गतिमिष्टां दिशन्ति ॥ ८४ ॥
दक्षां पृथ्वीं बृहतीं विप्रकृष्टां शिवामृतां सुरसां सुप्रसन्नाम् ।विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥ ८५ ॥
ख्यातिर्यस्याः खं दिवं गां च नित्यं पुरा दिशो विदिशश्चावतस्थे ।तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ ८६ ॥
इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा ।प्रातस्त्रिमार्गा घृतवहा विपाप्मा गङ्गावतीर्णा वियतो विश्वतोया ॥ ८७ ॥
सुतावनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कक्ष्यानुरूपा ।भव्या पृथिव्या भाविनी भाति राजन्गङ्गा लोकानां पुण्यदा वै त्रयाणाम् ॥ ८८ ॥
मधुप्रवाहा घृतरागोद्धृताभिर्महोर्मिभिः शोभिता ब्राह्मणैश्च ।दिवश्च्युता शिरसात्ता भवेन गङ्गावनीध्रास्त्रिदिवस्य माला ॥ ८९ ॥
योनिर्वरिष्ठा विरजा वितन्वी शुष्मा इरा वारिवहा यशोदा ।विश्वावती चाकृतिरिष्टिरिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः ॥ ९० ॥
क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव ।तुल्या गङ्गा संमता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यम् ॥ ९१ ॥
ऋषिष्टुतां विष्णुपदीं पुराणीं सुपुण्यतोयां मनसापि लोके ।सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयाताः ॥ ९२ ॥
लोकानिमान्नयति या जननीव पुत्रान्सर्वात्मना सर्वगुणोपपन्ना ।स्वस्थानमिष्टमिह ब्राह्ममभीप्समानैर्गङ्गा सदैवात्मवशैरुपास्या ॥ ९३ ॥
उस्रां जुष्टां मिषतीं विश्वतोयामिरां वज्रीं रेवतीं भूधराणाम् ।शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ ९४ ॥
प्रसाद्य देवान्सविभून्समस्तान्भगीरथस्तपसोग्रेण गङ्गाम् ।गामानयत्तामभिगम्य शश्वन्पुमान्भयं नेह नामुत्र विद्यात् ॥ ९५ ॥
उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या ।शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥ ९६ ॥
मेरोः समुद्रस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि ।वक्तुं शक्यं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव ॥ ९७ ॥
तस्मादिमान्परया श्रद्धयोक्तान्गुणान्सर्वाञ्जाह्नवीजांस्तथैव ।भजेद्वाचा मनसा कर्मणा च भक्त्या युक्तः परया श्रद्दधानः ॥ ९८ ॥
लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् ।गङ्गाकृतानचिरेणैव लोकान्यथेष्टमिष्टान्विचरिष्यसि त्वम् ॥ ९९ ॥
तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः ।अभिगतजनवत्सला हि गङ्गा भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥ १०० ॥
भीष्म उवाच ।इति परममतिर्गुणाननेकाञ्शिलरतये त्रिपथानुयोगरूपान् ।बहुविधमनुशास्य तथ्यरूपान्गगनतलं द्युतिमान्विवेश सिद्धः ॥ १०१ ॥
शिलवृत्तिस्तु सिद्धस्य वाक्यैः संबोधितस्तदा ।गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ॥ १०२ ॥
तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः ।गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥ १०३ ॥
वैशंपायन उवाच ।श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् ।युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ॥ १०४ ॥
इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा ।गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ॥ १०५ ॥
« »