Click on words to see what they mean.

वैशंपायन उवाच ।महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः ।पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥ १ ॥
पुरा पुत्र मया मेरौ तप्यता परमं तपः ।पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥ २ ॥
लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन ।तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥ ३ ॥
चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा ।आलम्बायन इत्येव विश्रुतः करुणात्मकः ॥ ४ ॥
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः ।अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥ ५ ॥
अजराणामदुःखानां शतवर्षसहस्रिणाम् ।लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥ ६ ॥
वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत ।विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ।उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ॥ ७ ॥
सोऽहमीशानमनघमस्तौषं शरणं गतः ।मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ।आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥ ८ ॥
जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः ।ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ॥ ९ ॥
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज ।शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ॥ १० ॥
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः ।परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ॥ ११ ॥
पापं न भविता तेऽद्य अजेयश्च भविष्यसि ।न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि ॥ १२ ॥
आह मां भगवानेवं शिखण्डी शिवविग्रहः ।यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥ १३ ॥
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ।शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ।तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ॥ १४ ॥
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा ।प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥ १५ ॥
वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ।शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ।वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ॥ १६ ॥
रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते ।समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ।अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥ १७ ॥
एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः ।प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ।दश वर्षसहस्राणि दशाष्टौ च शतानि च ॥ १८ ॥
नष्टपानीययवसे मृगैरन्यैश्च वर्जिते ।अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ।भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥ १९ ॥
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ।ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥ २० ॥
अजरश्चामरश्चैव भविता दुःखवर्जितः ।साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥ २१ ॥
अनुग्रहानेवमेष करोति भगवान्विभुः ।परं धाता विधाता च सुखदुःखे च सर्वदा ॥ २२ ॥
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा ।न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥ २३ ॥
जैगीषव्य उवाच ।ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा ।यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ॥ २४ ॥
गार्ग्य उवाच ।चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् ।सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥ २५ ॥
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् ।आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥ २६ ॥
पराशर उवाच ।प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप ।महातपा महातेजा महायोगी महायशाः ।वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ॥ २७ ॥
अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् ।इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ॥ २८ ॥
मयि संभवतस्तस्य फलात्कृष्णो भविष्यति ।सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ॥ २९ ॥
वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा ।इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ॥ ३० ॥
भविष्यति महेन्द्रस्य दयितः स महामुनिः ।अजरश्चामरश्चैव पराशर सुतस्तव ॥ ३१ ॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥ ३२ ॥
माण्डव्य उवाच ।अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा ।तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ॥ ३३ ॥
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ।रुजा शूलकृता चैव न ते विप्र भविष्यति ।आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥ ३४ ॥
पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव ।त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥ ३५ ॥
तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि ।स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥ ३६ ॥
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः ।महेश्वरो महाराज कृत्तिवासा महाद्युतिः ।सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥ ३७ ॥
गालव उवाच ।विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ।अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥ ३८ ॥
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् ।न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥ ३९ ॥
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ।नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥ ४० ॥
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ।भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥ ४१ ॥
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर ।अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ॥ ४२ ॥
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् ।तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ॥ ४३ ॥
प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव ।दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः ॥ ४४ ॥
वैशंपायन उवाच ।एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः ।प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥ ४५ ॥
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः ।युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ॥ ४६ ॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे ।धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणो वित्तगोपः ॥ ४७ ॥
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः ।सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा नियमा ये च केचित् ॥ ४८ ॥
स्वाहा वषड्ब्राह्मणाः सौरभेया धर्मं चक्रं कालचक्रं चरं च ।यशो दमो बुद्धिमती स्थितिश्च शुभाशुभं मुनयश्चैव सप्त ॥ ४९ ॥
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शे सिद्धिः कर्मणां या च सिद्धिः ।गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥ ५० ॥
आभास्वरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः ।शुद्धाश्च निर्वाणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥ ५१ ॥
चिन्तागता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ ।सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगाश्चारणाश्च ॥ ५२ ॥
सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं सुखं दुःखं सुखदुःखान्तरं च ।सांख्यं योगं यत्पराणां परं च शर्वाज्जातं विद्धि यत्कीर्तितं मे ॥ ५३ ॥
तत्संभूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः ।आविश्येमां धरणीं येऽभ्यरक्षन्पुरातनीं तस्य देवस्य सृष्टिम् ॥ ५४ ॥
विचिन्वन्तं मनसा तोष्टुवीमि किंचित्तत्त्वं प्राणहेतोर्नतोऽस्मि ।ददातु देवः स वरानिहेष्टानभिष्टुतो नः प्रभुरव्ययः सदा ॥ ५५ ॥
इमं स्तवं संनियम्येन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत ।अभग्नयोगो नियतोऽब्दमेकं स प्राप्नुयादश्वमेधे फलं यत् ॥ ५६ ॥
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च जयेद्राजा पृथिवीं चापि कृत्स्नाम् ।वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥ ५७ ॥
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः ।सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ॥ ५८ ॥
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत ।तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ॥ ५९ ॥
« »