Click on words to see what they mean.

उपमन्युरुवाच ।एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः ।कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥ १ ॥
त्वादृशेन हि देवानां श्लाघनीयः समागमः ।ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ।जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् ॥ २ ॥
कृष्ण उवाच ।अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने ।द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम् ॥ ३ ॥
दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि ।दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ॥ ४ ॥
मासमेकं फलाहारो द्वितीयं सलिलाशनः ।तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ॥ ५ ॥
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः ।तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ ६ ॥
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन ।इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ।नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ॥ ७ ॥
तमास्थितश्च भगवान्देव्या सह महाद्युतिः ।तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ ८ ॥
रराज भगवांस्तत्र देव्या सह महेश्वरः ।सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥ ९ ॥
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः ।अपश्यं देवसंघानां गतिमार्तिहरं हरम् ॥ १० ॥
किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम् ।पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥ ११ ॥
दिव्यां मालामुरसानेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम् ।चन्द्रं यथा परिविष्टं ससंध्यं वर्षात्यये तद्वदपश्यमेनम् ॥ १२ ॥
प्रमथानां गणैश्चैव समन्तात्परिवारितम् ।शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥ १३ ॥
एकादश तथा चैनं रुद्राणां वृषवाहनम् ।अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ॥ १४ ॥
आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ ।विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥ १५ ॥
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ ।ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥ १६ ॥
योगीश्वराः सुबहवो योगदं पितरं गुरुम् ।ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥ १७ ॥
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा ।मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ॥ १८ ॥
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः ।दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ॥ १९ ॥
सनत्कुमारो वेदाश्च इतिहासास्तथैव च ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ २० ॥
मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः ।भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥ २१ ॥
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः ।यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥ २२ ॥
प्रजानां पतयः सर्वे सरितः पन्नगा नगाः ।देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ॥ २३ ॥
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च ।नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥ २४ ॥
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः ।दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ।विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ॥ २५ ॥
सर्वाणि चैव भूतानि स्थावराणि चराणि च ।नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ।पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ॥ २६ ॥
पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत ।सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥ २७ ॥
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा ।ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥ २८ ॥
शिरसा वन्दिते देवे देवी प्रीता उमाभवत् ।ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥ २९ ॥
नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति ।तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥ ३० ॥
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः ।धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ ३१ ॥
त्वत्तो जातानि भूतानि स्थावराणि चराणि च ।त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥ ३२ ॥
ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्निः ।ये वा दिविस्था देवताश्चापि पुंसां तस्मात्परं त्वामृषयो वदन्ति ॥ ३३ ॥
वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः ।यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम् ॥ ३४ ॥
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये ।ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥ ३५ ॥
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः ।आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥ ३६ ॥
कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः ।मनसः परमा योनिः स्वभावश्चापि शाश्वतः ।अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ॥ ३७ ॥
आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः ।महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः ॥ ३८ ॥
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः ।पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥ ३९ ॥
त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति ।हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ॥ ४० ॥
सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ।सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ ४१ ॥
फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु ।त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ।अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ ४२ ॥
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये ।ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः ॥ ४३ ॥
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् ।हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ ४४ ॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः ।प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ ४५ ॥
एवमुक्ते मया पार्थ भवे चार्तिविनाशने ।चराचरं जगत्सर्वं सिंहनादमथाकरोत् ॥ ४६ ॥
सविप्रसंघाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि ।रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तथा प्रणेमुः ॥ ४७ ॥
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् ।राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥ ४८ ॥
निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः ।शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शंकरः ॥ ४९ ॥
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् ।क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ॥ ५० ॥
वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम ।ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥ ५१ ॥
« »