Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामहेशाय विभो नामान्याचक्ष्व शंभवे ।बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ॥ १ ॥
भीष्म उवाच ।सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि ।शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः ॥ २ ॥
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना ।निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ॥ ३ ॥
द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः ।ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥ ४ ॥
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये ।महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने ॥ ५ ॥
वासुदेव उवाच ।न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः ॥ ६ ॥
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ।न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ।स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥ ७ ॥
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् ।भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥ ८ ॥
वैशंपायन उवाच ।एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः ।उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥ ९ ॥
वासुदेव उवाच ।शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर ।त्वं चापगेय नामानि निशामय जगत्पतेः ॥ १० ॥
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् ।यथा च भगवान्दृष्टो मया पूर्वं समाधिना ॥ ११ ॥
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता ।अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ १२ ॥
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् ।पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥ १३ ॥
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् ।आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥ १४ ॥
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किंचन ।लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥ १५ ॥
त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता ।आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ॥ १६ ॥
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ।चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुरेव च ॥ १७ ॥
यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः ।तथा ममापि तनयं प्रयच्छ बलशालिनम् ॥ १८ ॥
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् ।अनुजानीहि मां राज्ञि करिष्ये वचनं तव ।सा च मामब्रवीद्गच्छ विजयाय शिवाय च ॥ १९ ॥
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः ।क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा ॥ २० ॥
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः ।देवपत्न्यो देवकन्या देवमातर एव च ॥ २१ ॥
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः ।सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ॥ २२ ॥
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ।रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् ।अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥ २३ ॥
एवं कृतस्वस्त्ययनस्तयाहं तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् ।पितुः समीपे नरसत्तमस्य मातुश्च राज्ञश्च तथाहुकस्य ॥ २४ ॥
तमर्थमावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशार्ता ।तानभ्यनुज्ञाय तदातिदुःखाद्गदं तथैवातिबलं च रामम् ॥ २५ ॥
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् ।सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ २६ ॥
तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे ।क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ॥ २७ ॥
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः ।पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् ॥ २८ ॥
धवककुभकदम्बनारिकेलैः कुरबककेतकजम्बुपाटलाभिः ।वटवरुणकवत्सनाभबिल्वैः सरलकपित्थप्रियालसालतालैः ॥ २९ ॥
बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः ।भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ॥ ३० ॥
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् ।पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥ ३१ ॥
नानाशकुनिसंभोज्यैः फलैर्वृक्षैरलंकृतम् ।यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ॥ ३२ ॥
रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् ।कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ।पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥ ३३ ॥
नानापुष्परजोमिश्रो गजदानाधिवासितः ।दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ ॥ ३४ ॥
धारानिनादैर्विहगप्रणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम् ।गीतैस्तथा किंनराणामुदारैः शुभैः स्वनैः सामगानां च वीर ॥ ३५ ॥
अचिन्त्यं मनसाप्यन्यैः सरोभिः समलंकृतम् ।विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ॥ ३६ ॥
विभूषितं पुण्यपवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया ।महात्मभिर्धर्मभृतां वरिष्ठैर्महर्षिभिर्भूषितमग्निकल्पैः ॥ ३७ ॥
वाय्वाहारैरम्बुपैर्जप्यनित्यैः संप्रक्षालैर्यतिभिर्ध्याननित्यैः ।धूमाशनैरूष्मपैः क्षीरपैश्च विभूषितं ब्राह्मणेन्द्रैः समन्तात् ॥ ३८ ॥
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा ।मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥ ३९ ॥
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् ।पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ॥ ४० ॥
सुपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारत पुण्यकर्मभिः ।रराज तच्चाश्रममण्डलं सदा दिवीव राजन्रविमण्डलं यथा ॥ ४१ ॥
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् ।प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ॥ ४२ ॥
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे ।सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥ ४३ ॥
नानानियमविख्यातैरृषिभिश्च महात्मभिः ।प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥ ४४ ॥
तेजसा तपसा चैव दीप्यमानं यथानलम् ।शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् ।शिरसा वन्दमानं मामुपमन्युरभाषत ॥ ४५ ॥
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः ।यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि ॥ ४६ ॥
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु ।धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥ ४७ ॥
ततो मां भगवानाह साम्ना परमवल्गुना ।लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् ॥ ४८ ॥
तपः सुमहदास्थाय तोषयेशानमीश्वरम् ।इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥ ४९ ॥
इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा ।तपसा ब्रह्मचर्येण सत्येन च दमेन च ।तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ॥ ५० ॥
तेजसां तपसां चैव निधिः स भगवानिह ।शुभाशुभान्वितान्भावान्विसृजन्संक्षिपन्नपि ।आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥ ५१ ॥
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः ।तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥ ५२ ॥
तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः ।महादेववराच्छक्रं वर्षार्बुदमयोधयत् ॥ ५३ ॥
विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च ।शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ॥ ५४ ॥
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥ ५५ ॥
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् ।शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ।ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ॥ ५६ ॥
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः ।कुशद्वीपं च स ददौ राज्येन भगवानजः ॥ ५७ ॥
तथा शतमुखो नाम धात्रा सृष्टो महासुरः ।येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ।तं प्राह भगवांस्तुष्टः किं करोमीति शंकरः ॥ ५८ ॥
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः ।बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे ॥ ५९ ॥
स्वायंभुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा ।आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ॥ ६० ॥
तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान् ।योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥ ६१ ॥
वालखिल्या मघवता अवज्ञाताः पुरा किल ।तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥ ६२ ॥
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः ।सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥ ६३ ॥
महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् ।ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥ ६४ ॥
अत्रेर्भार्यापि भर्तारं संत्यज्य ब्रह्मवादिनी ।नाहं तस्य मुनेर्भूयो वशगा स्यां कथंचन ।इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ॥ ६५ ॥
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि ।अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ॥ ६६ ॥
तामब्रवीद्धसन्देवो भविता वै सुतस्तव ।वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥ ६७ ॥
शाकल्यः संशितात्मा वै नव वर्षशतान्यपि ।आराधयामास भवं मनोयज्ञेन केशव ॥ ६८ ॥
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि ।वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ।अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ॥ ६९ ॥
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे ।इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ॥ ७० ॥
तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ ।ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ ७१ ॥
मयापि च यथा दृष्टो देवदेवः पुरा विभुः ।साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥ ७२ ॥
यदर्थं च महादेवः प्रयतेन मया पुरा ।आराधितो महातेजास्तच्चापि शृणु विस्तरम् ॥ ७३ ॥
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् ।तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ ॥ ७४ ॥
पुरा कृतयुगे तात ऋषिरासीन्महायशाः ।व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ।तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥ ७५ ॥
कस्यचित्त्वथ कालस्य धौम्येन सह माधव ।आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥ ७६ ॥
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी ।लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥ ७७ ॥
ततः पिष्टं समालोड्य तोयेन सह माधव ।आवयोः क्षीरमित्येव पानार्थमुपनीयते ॥ ७८ ॥
अथ गव्यं पयस्तात कदाचित्प्राशितं मया ।ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ॥ ७९ ॥
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा ।क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ॥ ८० ॥
ततो मामब्रवीन्माता दुःखशोकसमन्विता ।पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥ ८१ ॥
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् ।वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ ८२ ॥
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् ।कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ ८३ ॥
तं प्रपद्य सदा वत्स सर्वभावेन शंकरम् ।तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ ८४ ॥
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥ ८५ ॥
ततोऽहं तप आस्थाय तोषयामास शंकरम् ।दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ॥ ८६ ॥
एकं वर्षशतं चैव फलाहारस्तदाभवम् ।द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ।शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ॥ ८७ ॥
ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः ।शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ।सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥ ८८ ॥
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् ।आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ॥ ८९ ॥
समास्थितश्च भगवान्दीप्यमानः स्वतेजसा ।आजगाम किरीटी तु हारकेयूरभूषितः ॥ ९० ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ॥ ९१ ॥
ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम ।वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥ ९२ ॥
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् ।अब्रुवं च तदा कृष्ण देवराजमिदं वचः ॥ ९३ ॥
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् ।महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥ ९४ ॥
पशुपतिवचनाद्भवामि सद्यः कृमिरथ वा तरुरप्यनेकशाखः ।अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥ ९५ ॥
अपि कीटः पतंगो वा भवेयं शंकराज्ञया ।न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥ ९६ ॥
यावच्छशाङ्कशकलामलबद्धमौलिर्न प्रीयते पशुपतिर्भगवान्ममेशः ।तावज्जरामरणजन्मशताभिघातैर्दुःखानि देहविहितानि समुद्वहामि ॥ ९७ ॥
दिवसकरशशाङ्कवह्निदीप्तं त्रिभुवनसारमपारमाद्यमेकम् ।अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिम् ॥ ९८ ॥
शक्र उवाच ।कः पुनस्तव हेतुर्वै ईशे कारणकारणे ।येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥ ९९ ॥
उपमन्युरुवाच ।हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् ।न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ॥ १०० ॥
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् ।अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥ १०१ ॥
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः ।अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥ १०२ ॥
तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक ।गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥ १०३ ॥
काममेष वरो मेऽस्तु शापो वापि महेश्वरात् ।न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि ॥ १०४ ॥
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः ।न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् ।अथापश्यं क्षणेनैव तमेवैरावतं पुनः ॥ १०५ ॥
हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् ।वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ॥ १०६ ॥
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ।जाम्बूनदेन दाम्ना च सर्वतः समलंकृतम् ॥ १०७ ॥
रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् ।सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥ १०८ ॥
ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् ।तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥ १०९ ॥
तमास्थितश्च भगवान्देवदेवः सहोमया ।अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥ ११० ॥
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् ।सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ॥ १११ ॥
ईश्वरः सुमहातेजाः संवर्तक इवानलः ।युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ॥ ११२ ॥
तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः ।पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ॥ ११३ ॥
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश ।प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ ११४ ॥
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् ।सौरभेयगतं सौम्यं विधूममिव पावकम् ।सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥ ११५ ॥
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् ।अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥ ११६ ॥
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् ।शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥ ११७ ॥
गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः ।वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ॥ ११८ ॥
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् ।त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः ॥ ११९ ॥
अशोभत च देवस्य माला गात्रे सितप्रभे ।जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥ १२० ॥
मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च ।मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥ १२१ ॥
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः ।पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥ १२२ ॥
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः ।ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ १२३ ॥
शरश्च सूर्यसंकाशः कालानलसमद्युतिः ।यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥ १२४ ॥
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् ।सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥ १२५ ॥
एकपादं महादंष्ट्रं सहस्रशिरसोदरम् ।सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥ १२६ ॥
ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् ।यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥ १२७ ॥
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा ।शरेणैकेन गोविन्द महादेवेन लीलया ॥ १२८ ॥
निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् ।महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ १२९ ॥
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि ।तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ॥ १३० ॥
गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा ।यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ १३१ ॥
दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम् ।संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥ १३२ ॥
यौवनाश्वो हतो येन मांधाता सबलः पुरा ।चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ १३३ ॥
महाबलो महावीर्यः शक्रतुल्यपराक्रमः ।करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥ १३४ ॥
तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् ।त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् ॥ १३५ ॥
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् ।सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ।दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ ॥ १३६ ॥
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा ।महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः ।कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ १३७ ॥
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता ।जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ १३८ ॥
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः ।अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः ॥ १३९ ॥
असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः ।प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ १४० ॥
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥ १४१ ॥
वामपार्श्वगतश्चैव तथा नारायणः स्थितः ।वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥ १४२ ॥
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः ।शक्तिं कण्ठे समादाय द्वितीय इव पावकः ॥ १४३ ॥
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् ।शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शंकरम् ॥ १४४ ॥
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ १४५ ॥
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः ।अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा ॥ १४६ ॥
ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् ।ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ।गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ॥ १४७ ॥
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः ।अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥ १४८ ॥
तेषां मध्यगतो देवो रराज भगवाञ्शिवः ।शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् ।ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ॥ १४९ ॥
नमो देवाधिदेवाय महादेवाय वै नमः ।शक्राय शक्ररूपाय शक्रवेषधराय च ॥ १५० ॥
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च ।पिनाकपाणये नित्यं खड्गशूलधराय च ॥ १५१ ॥
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे ।कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥ १५२ ॥
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च ।शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ १५३ ॥
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यसे ॥ १५४ ॥
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः ।आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः ।कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे ॥ १५५ ॥
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ।वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे ॥ १५६ ॥
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः ।ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः ॥ १५७ ॥
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः ।पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ॥ १५८ ॥
सामवेदश्च वेदानां यजुषां शतरुद्रियम् ।सनत्कुमारो योगीनां सांख्यानां कपिलो ह्यसि ॥ १५९ ॥
शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि ।ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥ १६० ॥
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः ।वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ।आदिस्त्वमसि लोकानां संहर्ता काल एव च ॥ १६१ ॥
यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् ।तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥ १६२ ॥
नमस्ते भगवन्देव नमस्ते भक्तवत्सल ।योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसंभव ॥ १६३ ॥
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च ।अनैश्वर्येण युक्तस्य गतिर्भव सनातन ॥ १६४ ॥
यं चापराधं कृतवानज्ञानात्परमेश्वर ।मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ १६५ ॥
मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् ।तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ॥ १६६ ॥
एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः ।कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥ १६७ ॥
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता ।पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ १६८ ॥
दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिंकरैः ।ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ १६९ ॥
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः ।अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥ १७० ॥
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः ।मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् ॥ १७१ ॥
एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना ।ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥ १७२ ॥
भगवन्देवदेवेश लोकनाथ जगत्पते ।लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ १७३ ॥
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा ।आह मां भगवानीशः प्रहसन्निव शंकरः ॥ १७४ ॥
वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुंगव ।दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥ १७५ ॥
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् ।तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् ॥ १७६ ॥
एवमुक्तस्य चैवाथ महादेवेन मे विभो ।हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ॥ १७७ ॥
अब्रुवं च तदा देवं हर्षगद्गदया गिरा ।जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः ॥ १७८ ॥
अद्य जातो ह्यहं देव अद्य मे सफलं तपः ।यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥ १७९ ॥
यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् ।तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥ १८० ॥
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् ।षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् ॥ १८१ ॥
स एष भगवान्देवः सर्वतत्त्वादिरव्ययः ।सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥ १८२ ॥
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम् ।वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ।युगान्ते चैव संप्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ॥ १८३ ॥
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् ।कालो भूत्वा महातेजाः संवर्तक इवानलः ॥ १८४ ॥
एष देवो महादेवो जगत्सृष्ट्वा चराचरम् ।कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥ १८५ ॥
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः ।आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥ १८६ ॥
यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः ।भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शंकर ॥ १८७ ॥
अतीतानागतं चैव वर्तमानं च यद्विभो ।जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम ॥ १८८ ॥
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः ।आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते ॥ १८९ ॥
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः ।महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ॥ १९० ॥
अजरश्चामरश्चैव भव दुःखविवर्जितः ।शीलवान्गुणसंपन्नः सर्वज्ञः प्रियदर्शनः ॥ १९१ ॥
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् ।क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ॥ १९२ ॥
तत्र ते भविता कामं सांनिध्यं पयसो निधेः ।क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ॥ १९३ ॥
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि ।सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ १९४ ॥
तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि ।स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ॥ १९५ ॥
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ।ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ॥ १९६ ॥
एवं दृष्टो मया कृष्ण देवदेवः समाधिना ।तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥ १९७ ॥
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् ।ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥ १९८ ॥
पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् ।सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः ।सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ॥ १९९ ॥
« »