Click on words to see what they mean.

कृष्ण उवाच ।मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः ।परमं हर्षमागम्य भगवन्तमथाब्रुवम् ॥ १ ॥
धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाग्र्यं परमं बलं च ।योगप्रियत्वं तव संनिकर्षं वृणे सुतानां च शतं शतानि ॥ २ ॥
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शंकरः ॥ ३ ॥
ततो मां जगतो माता धरणी सर्वपावनी ।उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ॥ ४ ॥
दत्तो भगवता पुत्रः साम्बो नाम तवानघ ।मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते ।प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥ ५ ॥
द्विजेष्वकोपं पितृतः प्रसादं शतं सुतानामुपभोगं परं च ।कुले प्रीतिं मातृतश्च प्रसादं शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥ ६ ॥
देव्युवाच ।एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित् ।भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाक्षयत्वम् ॥ ७ ॥
प्रीतिं चाग्र्यां बान्धवानां सकाशाद्ददामि ते वपुषः काम्यतां च ।भोक्ष्यन्ते वै सप्ततिर्वै शतानि गृहे तुभ्यमतिथीनां च नित्यम् ॥ ८ ॥
वासुदेव उवाच ।एवं दत्त्वा वरान्देवो मम देवी च भारत ।अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥ ९ ॥
एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे ।उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम ॥ १० ॥
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत ।नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ।नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥ ११ ॥
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः ।दश वर्षसहस्राणि तेन देवः समाधिना ।आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ॥ १२ ॥
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ।पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ।अत्युग्रं तेजसां तेजस्तपसां परमं तपः ॥ १३ ॥
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत ।भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥ १४ ॥
जातीमरणभीरूणां यतीनां यततां विभो ।निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥ १५ ॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥ १६ ॥
त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते ।कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥ १७ ॥
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ।अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ।अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥ १८ ॥
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि ।विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ १९ ॥
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः ।द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ २० ॥
त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि ।सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ २१ ॥
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः ।वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ २२ ॥
भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः ।कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ २३ ॥
इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् ।विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ २४ ॥
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् ।या गतिः सांख्ययोगानां स भवान्नात्र संशयः ॥ २५ ॥
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् ।यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ॥ २६ ॥
अहो मूढाः स्म सुचिरमिमं कालमचेतसः ।यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ २७ ॥
सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया ।भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ॥ २८ ॥
देवासुरमनुष्याणां यच्च गुह्यं सनातनम् ।गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥ २९ ॥
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः ।सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ ३० ॥
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ।देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ॥ ३१ ॥
अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् ।अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥ ३२ ॥
अयं च सर्वभूतानां शुभाशुभगतिप्रदः ।अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ॥ ३३ ॥
अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः ।अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥ ३४ ॥
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः ।विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ॥ ३५ ॥
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् ।अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ ३६ ॥
अयं स सत्यकामानां सत्यलोकः परः सताम् ।अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥ ३७ ॥
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः ।देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥ ३८ ॥
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् ।मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥ ३९ ॥
ये चैनं संप्रपद्यन्ते भक्तियोगेन भारत ।तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ ४० ॥
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते ।यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ ४१ ॥
यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः ।प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥ ४२ ॥
यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः ।सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ ४३ ॥
यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् ।प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ ४४ ॥
अयं स देवयानानामादित्यो द्वारमुच्यते ।अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥ ४५ ॥
एष कालगतिश्चित्रा संवत्सरयुगादिषु ।भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥ ४६ ॥
एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः ।वरयामास पुत्रत्वे नीललोहितसंज्ञितम् ॥ ४७ ॥
ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः ।यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥ ४८ ॥
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ।यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥ ४९ ॥
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः ।ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥ ५० ॥
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् ।कालस्य परमा योनिः कालश्चायं सनातनः ॥ ५१ ॥
चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ।ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ ५२ ॥
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् ।ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥ ५३ ॥
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् ।अस्य देवस्य यद्भागं कृत्स्नं संपरिवर्तते ॥ ५४ ॥
एतत्परममानन्दं यत्तच्छाश्वतमेव च ।एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ ५५ ॥
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् ।शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ ५६ ॥
इयं सा परमा काष्ठा इयं सा परमा कला ।इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ ५७ ॥
इयं सा परमा शान्तिरियं सा निर्वृतिः परा ।यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ॥ ५८ ॥
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः ।अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ॥ ५९ ॥
यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः ।या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥ ६० ॥
जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः ।तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥ ६१ ॥
कर्मन्यासकृतानां च विरक्तानां ततस्ततः ।या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ॥ ६२ ॥
अपुनर्मारकामानां वैराग्ये वर्ततां परे ।विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ ६३ ॥
ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना ।कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ ६४ ॥
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः ।त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ ६५ ॥
इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् ।जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ ६६ ॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥ ६७ ॥
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः ।यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ६८ ॥
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव ।मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥ ६९ ॥
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे ।प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ॥ ७० ॥
एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः ।स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥ ७१ ॥
अन्तर्हिते भगवति सानुगे यादवेश्वर ।ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ॥ ७२ ॥
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम ।नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥ ७३ ॥
दश नामसहस्राणि वेदेष्वाह पितामहः ।शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ॥ ७४ ॥
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत ।देवप्रसादाद्देवेश पुरा प्राह महात्मने ॥ ७५ ॥
« »