Click on words to see what they mean.

वैशंपायन उवाच ।इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने ।भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥
निर्णये वा महाबुद्धे सर्वधर्मभृतां वर ।प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥ २ ॥
भीष्म उवाच ।नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः ।शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ॥ ३ ॥
संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः ।दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥ ४ ॥
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः ।नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ।तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ॥ ५ ॥
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति ।शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च ।प्राणयात्रामनेकां च कल्पयानेन भारत ॥ ६ ॥
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् ।हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ।ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ॥ ७ ॥
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा ।अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम् ॥ ८ ॥
युधिष्ठिर उवाच ।प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः ।शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ॥ ९ ॥
भीष्म उवाच ।धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।संस्था यत्नैरपि कृता कालेन परिभिद्यते ॥ १० ॥
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ।ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ ११ ॥
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः ।धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥ १२ ॥
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः ।परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च ॥ १३ ॥
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ ।धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च ॥ १४ ॥
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः ।आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ॥ १५ ॥
युधिष्ठिर उवाच ।पुनरेवेह मे बुद्धिः संशये परिमुह्यते ।अपारे मार्गमाणस्य परं तीरमपश्यतः ॥ १६ ॥
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि ।पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥ १७ ॥
भीष्म उवाच ।धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥ १८ ॥
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् ।पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ॥ १९ ॥
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर ।जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ॥ २० ॥
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः ।अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ॥ २१ ॥
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् ।अजातशत्रो सेवस्व धर्म एष सनातनः ॥ २२ ॥
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता ।तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ॥ २३ ॥
प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः ।न स प्रमाणतामर्हो विवादजननो हि सः ॥ २४ ॥
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च ।एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ २५ ॥
« »