Click on words to see what they mean.

युधिष्ठिर उवाच ।ये च धर्ममसूयन्ति ये चैनं पर्युपासते ।ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः ॥ १ ॥
भीष्म उवाच ।रजसा तमसा चैव समवस्तीर्णचेतसः ।नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ॥ २ ॥
ये तु धर्मं महाराज सततं पर्युपासते ।सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ॥ ३ ॥
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् ।देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥ ४ ॥
मनुष्या यदि वा देवाः शरीरमुपताप्य वै ।धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥ ५ ॥
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः ।धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः ॥ ६ ॥
युधिष्ठिर उवाच ।असतां कीदृशं रूपं साधवः किं च कुर्वते ।ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥ ७ ॥
भीष्म उवाच ।दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः ।साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् ॥ ८ ॥
राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः ।नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ ९ ॥
पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः ।न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥ १० ॥
चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् ।ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ॥ ११ ॥
वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च ।ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते ॥ १२ ॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥ १३ ॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥ १४ ॥
होमकाले यथा वह्निः कालमेव प्रतीक्षते ।ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ।न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् ॥ १५ ॥
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः ।तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ॥ १६ ॥
यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति ।पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥ १७ ॥
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् ।कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ॥ १८ ॥
गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च ।गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥ १९ ॥
वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि ।नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥ २० ॥
न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि ।मैथुनं सततं गुप्तमाहारं च समाचरेत् ॥ २१ ॥
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि ।दर्शनानां परं ज्ञानं संतोषः परमं सुखम् ॥ २२ ॥
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः ।श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥ २३ ॥
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ।यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ॥ २४ ॥
संस्कृतं पायसं नित्यं यवागूं कृसरं हविः ।अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् ॥ २५ ॥
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् ।व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् ॥ २६ ॥
न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् ।त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ।अवराणां समानानां शिष्याणां च समाचरेत् ॥ २७ ॥
पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् ।ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ २८ ॥
ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः ।न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ।पापेनाभिहतः पापः पापमेवाभिजायते ॥ २९ ॥
यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते ।धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ॥ ३० ॥
यथा लवणमम्भोभिराप्लुतं प्रविलीयते ।प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥ ३१ ॥
तस्मात्पापं न गूहेत गूहमानं विवर्धते ।कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ॥ ३२ ॥
आशया संचितं द्रव्यं यत्काले नोपभुज्यते ।अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥ ३३ ॥
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥ ३४ ॥
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् ।धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥ ३५ ॥
अर्चेद्देवानदम्भेन सेवेतामायया गुरून् ।निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् ॥ ३६ ॥
« »