Click on words to see what they mean.

वासुदेव उवाच ।युधिष्ठिर महाबाहो महाभाग्यं महात्मनः ।रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥ १ ॥
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् ।एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ २ ॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ ३ ॥
उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः ।शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ॥ ४ ॥
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ ।ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ॥ ५ ॥
यास्य घोरतमा मूर्तिर्जगत्संहरते तया ।ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥ ६ ॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ७ ॥
देवानां सुमहान्यच्च यच्चास्य विषयो महान् ।यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ ८ ॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः ।शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ ९ ॥
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् ।स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ १० ॥
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा ।स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ ११ ॥
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते ।विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ १२ ॥
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ॥ १३ ॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ १४ ॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ॥ १५ ॥
विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः ।लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ १६ ॥
ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा ।लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ॥ १७ ॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ १८ ॥
एष एव श्मशानेषु देवो वसति नित्यशः ।यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ॥ १९ ॥
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह ।स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् ॥ २० ॥
तस्य घोराणि रूपाणि दीप्तानि च बहूनि च ।लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥ २१ ॥
नामधेयानि वेदेषु बहून्यस्य यथार्थतः ।निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ २२ ॥
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् ।व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ॥ २३ ॥
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् ।ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥ २४ ॥
प्रथमो ह्येष देवानां मुखादग्निरजायत ।ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥ २५ ॥
स मोचयति पुण्यात्मा शरण्यः शरणागतान् ।आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥ २६ ॥
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः ।शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ २७ ॥
स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे ।ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥ २८ ॥
महेश्वरश्च लोकानां महतामीश्वरश्च सः ।बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ।तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥ २९ ॥
« »