Click on words to see what they mean.

युधिष्ठिर उवाच ।अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे ।कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥ १ ॥
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे ।जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥ २ ॥
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे ।कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥ ३ ॥
भीष्म उवाच ।समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे ।संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ॥ ४ ॥
निरता येन भावेन तत्र मे शृणु कारणम् ।सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ॥ ५ ॥
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप ।द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥ ६ ॥
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा ।ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥ ७ ॥
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् ।सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ॥ ८ ॥
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥ ९ ॥
कीट उवाच ।शकटस्यास्य महतो घोषं श्रुत्वा भयं मम ।आगतं वै महाबुद्धे स्वन एष हि दारुणः ।श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥ १० ॥
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् ।वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ।नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥ ११ ॥
सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना ।तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ॥ १२ ॥
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् ।अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ॥ १३ ॥
भीष्म उवाच ।इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव ।मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥ १४ ॥
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् ।नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥ १५ ॥
कीट उवाच ।सर्वत्र निरतो जीव इतीहापि सुखं मम ।चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥ १६ ॥
इहापि विषयः सर्वो यथादेहं प्रवर्तितः ।मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥ १७ ॥
अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा ।अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥ १८ ॥
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः ।मिथःकृतोऽपनिधनः परस्वहरणे रतः ॥ १९ ॥
भृत्यातिथिजनश्चापि गृहे पर्युषितो मया ।मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ॥ २० ॥
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया ।न दत्तमर्थकामेन देयमन्नं पुनाति ह ॥ २१ ॥
गुप्तं शरणमाश्रित्य भयेषु शरणागताः ।अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ॥ २२ ॥
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् ।श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥ २३ ॥
ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः ।त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥ २४ ॥
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया ।स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ॥ २५ ॥
शुभानामपि जानामि कृतानां कर्मणां फलम् ।माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥ २६ ॥
सकृज्जातिगुणोपेतः संगत्या गृहमागतः ।अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥ २७ ॥
कर्मणा तेन चैवाहं सुखाशामिह लक्षये ।तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ २८ ॥
« »