Click on words to see what they mean.

युधिष्ठिर उवाच ।इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः ।विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ॥ १ ॥
नापूपान्विविधाकाराञ्शाकानि विविधानि च ।षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् ॥ २ ॥
तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते ।न मन्ये रसतः किंचिन्मांसतोऽस्तीह किंचन ॥ ३ ॥
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा ।भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥ ४ ॥
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः ।किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥ ५ ॥
भीष्म उवाच ।एवमेतन्महाबाहो यथा वदसि भारत ।न मांसात्परमत्रान्यद्रसतो विद्यते भुवि ॥ ६ ॥
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये ।अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥ ७ ॥
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च ।न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परंतप ॥ ८ ॥
विवर्जने तु बहवो गुणाः कौरवनन्दन ।ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥ ९ ॥
स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति ।नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ॥ १० ॥
न हि प्राणात्प्रियतरं लोके किंचन विद्यते ।तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ॥ ११ ॥
शुक्राच्च तात संभूतिर्मांसस्येह न संशयः ।भक्षणे तु महान्दोषो वधेन सह कल्पते ॥ १२ ॥
अहिंसालक्षणो धर्म इति वेदविदो विदुः ।यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः ॥ १३ ॥
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते ।विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥ १४ ॥
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ।अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥ १५ ॥
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु ।वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति ॥ १६ ॥
आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः ।अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥ १७ ॥
नात्मानमपरित्यज्य मृगया नाम विद्यते ।समतामुपसंगम्य रूपं हन्यान्न वा नृप ॥ १८ ॥
अतो राजर्षयः सर्वे मृगयां यान्ति भारत ।लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ॥ १९ ॥
न हि तत्परमं किंचिदिह लोके परत्र च ।यत्सर्वेष्विह लोकेषु दया कौरवनन्दन ॥ २० ॥
न भयं विद्यते जातु नरस्येह दयावतः ।दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥ २१ ॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥ २२ ॥
क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् ।सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ २३ ॥
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः ।मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् ॥ २४ ॥
प्राणदानात्परं दानं न भूतं न भविष्यति ।न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् ॥ २५ ॥
अनिष्टं सर्वभूतानां मरणं नाम भारत ।मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥ २६ ॥
जातिजन्मजरादुःखे नित्यं संसारसागरे ।जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ २७ ॥
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः ।मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः ॥ २८ ॥
जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः ।पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥ २९ ॥
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः ।आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ॥ ३० ॥
नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह ।तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥ ३१ ॥
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् ।स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥ ३२ ॥
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् ।भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ॥ ३३ ॥
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् ।एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ॥ ३४ ॥
घातको वध्यते नित्यं तथा वध्येत बन्धकः ।आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥ ३५ ॥
येन येन शरीरेण यद्यत्कर्म करोति यः ।तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ ३६ ॥
अहिंसा परमो धर्मस्तथाहिंसा परो दमः ।अहिंसा परमं दानमहिंसा परमं तपः ॥ ३७ ॥
अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् ।अहिंसा परमं मित्रमहिंसा परमं सुखम् ।अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ॥ ३८ ॥
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् ।सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ ३९ ॥
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा ।अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ ४० ॥
एतत्फलमहिंसाया भूयश्च कुरुपुंगव ।न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ॥ ४१ ॥
« »