Click on words to see what they mean.

व्यास उवाच ।शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ।ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥ १ ॥
अहं हि दर्शनादेव तारयामि तपोबलात् ।तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥ २ ॥
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् ।अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ॥ ३ ॥
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये ।धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ॥ ४ ॥
वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः ।किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥ ५ ॥
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः ।ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥ ६ ॥
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे ।तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥ ७ ॥
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत ।तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥ ८ ॥
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ।श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ॥ ९ ॥
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना ।प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥ १० ॥
कीट उवाच ।इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः ।यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥ ११ ॥
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः ।स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ॥ १२ ॥
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् ।सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥ १३ ॥
गृहेषु सुनिवासेषु सुखेषु शयनेषु च ।परार्ध्येषु महाभाग स्वपामीह सुपूजितः ॥ १४ ॥
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः ।स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥ १५ ॥
प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः ।यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् ॥ १६ ॥
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् ।त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥ १७ ॥
व्यास उवाच ।अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया ।अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ॥ १८ ॥
न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा ।शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥ १९ ॥
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा ।तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ॥ २० ॥
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि ।गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ॥ २१ ॥
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् ।अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥ २२ ॥
तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः ।वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥ २३ ॥
« »