Click on words to see what they mean.

युधिष्ठिर उवाच ।अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः ।तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥ १ ॥
बृहस्पतिरुवाच ।सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः ।शृणु संकीर्त्यमानानि षडेव भरतर्षभ ॥ २ ॥
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् ।अहिंसापाश्रयं धर्मं यः साधयति वै नरः ॥ ३ ॥
त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा ।कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥ ४ ॥
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः ।आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ॥ ५ ॥
आत्मोपमश्च भूतेषु यो वै भवति पूरुषः ।न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ ६ ॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ ७ ॥
न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः ।एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ ८ ॥
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।आत्मौपम्येन पुरुषः समाधिमधिगच्छति ॥ ९ ॥
यथा परः प्रक्रमतेऽपरेषु तथापरः प्रक्रमते परस्मिन् ।एषैव तेऽस्तूपमा जीवलोके यथा धर्मो नैपुणेनोपदिष्टः ॥ १० ॥
वैशंपायन उवाच ।इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् ।दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ॥ ११ ॥
« »