Click on words to see what they mean.

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा शरतल्पे पितामहम् ।पुनरेव महातेजाः पप्रच्छ वदतां वरम् ॥ १ ॥
ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते ।अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥ २ ॥
कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम ।वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ॥ ३ ॥
भीष्म उवाच ।चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः ।एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥ ४ ॥
यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति ।तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः ॥ ५ ॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ।एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ॥ ६ ॥
कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च ॥ ७ ॥
पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा ।त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ॥ ८ ॥
मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः ।न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ॥ ९ ॥
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ।पुत्रमांसोपमं जानन्खादते यो विचेतनः ॥ १० ॥
मातापितृसमायोगे पुत्रत्वं जायते यथा ।रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ।तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥ ११ ॥
असंस्कृताः संस्कृताश्च लवणालवणास्तथा ।प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥ १२ ॥
भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् ।निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ १३ ॥
अचिन्तितमनुद्दिष्टमसंकल्पितमेव च ।रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ।प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ॥ १४ ॥
जीवितं हि परित्यज्य बहवः साधवो जनाः ।स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥ १५ ॥
एवमेषा महाराज चतुर्भिः कारणैर्वृता ।अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥ १६ ॥
« »