Click on words to see what they mean.

युधिष्ठिर उवाच ।अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ ।धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ।कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ॥ १ ॥
बृहस्पतिरुवाच ।कृत्वा पापानि कर्माणि अधर्मवशमागतः ।मनसा विपरीतेन निरयं प्रतिपद्यते ॥ २ ॥
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ ३ ॥
यथा यथा नरः सम्यगधर्ममनुभाषते ।समाहितेन मनसा विमुच्यति तथा तथा ।भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥ ४ ॥
अदत्त्वापि प्रदानानि विविधानि समाहितः ।मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ ५ ॥
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर ।नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ॥ ६ ॥
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ ७ ॥
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते ।अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ॥ ८ ॥
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ॥ ९ ॥
न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् ।स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ १० ॥
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश ।हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ ११ ॥
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ॥ १२ ॥
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ।स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥ १३ ॥
अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च ।क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ १४ ॥
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः ।तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥ १५ ॥
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ १६ ॥
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ।अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥ १७ ॥
औरसेन बलेनान्नमर्जयित्वाविहिंसकः ।यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ॥ १८ ॥
न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः ।द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥ १९ ॥
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ।सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ॥ २० ॥
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ।ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ २१ ॥
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ॥ २२ ॥
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते ।तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥ २३ ॥
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा ।अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥ २४ ॥
भोजयित्वा दशशतं नरो वेदविदां नृप ।न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ २५ ॥
न याति नरकं घोरं संसारांश्च न सेवते ।सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ॥ २६ ॥
एवं सुखसमायुक्तो रमते विगतज्वरः ।रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ २७ ॥
एतत्ते सर्वमाख्यातमन्नदानफलं महत् ।मूलमेतद्धि धर्माणां प्रदानस्य च भारत ॥ २८ ॥
« »