Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाबाहो सर्वशास्त्रविशारद ।श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥ १ ॥
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि ।प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥ २ ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ ३ ॥
भीष्म उवाच ।असावायाति भगवान्बृहस्पतिरुदारधीः ।पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥ ४ ॥
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै ।वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ ५ ॥
वैशंपायन उवाच ।तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा ।आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥ ६ ॥
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः ।पूजामनुपमां चक्रे सर्वे ते च सभासदः ॥ ७ ॥
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् ।उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः ॥ ८ ॥
युधिष्ठिर उवाच ।भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ ९ ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ॥ १० ॥
बृहस्पतिरुवाच ।एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति ।एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ॥ ११ ॥
असहायः पिता माता तथा भ्राता सुतो गुरुः ।ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ १२ ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः ।तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ॥ १३ ॥
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः ।प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् ।तथैवाधर्मसंयुक्तो नरकायोपपद्यते ॥ १४ ॥
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः ।धर्म एको मनुष्याणां सहायः पारलौकिकः ॥ १५ ॥
लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः ।नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ १६ ॥
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् ।एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ १७ ॥
युधिष्ठिर उवाच ।श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते ॥ १८ ॥
मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् ।अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ १९ ॥
बृहस्पतिरुवाच ।पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ २० ॥
प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् ।एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ॥ २१ ॥
त्वगस्थिमांसं शुक्रं च शोणितं च महामते ।शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ २२ ॥
ततो धर्मसमायुक्तः स जीवः सुखमेधते ।इह लोके परे चैव किं भूयः कथयामि ते ॥ २३ ॥
युधिष्ठिर उवाच ।अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति ।एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ २४ ॥
बृहस्पतिरुवाच ।अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर ।पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ २५ ॥
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु ।मनःषष्ठेषु शुद्धात्मन्रेतः संपद्यते महत् ॥ २६ ॥
ततो गर्भः संभवति स्त्रीपुंसोः पार्थ संगमे ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २७ ॥
युधिष्ठिर उवाच ।आख्यातमेतद्भवता गर्भः संजायते यथा ।यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥ २८ ॥
बृहस्पतिरुवाच ।आसन्नमात्रः सततं तैर्भूतैरभिभूयते ।विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ।स तु भूतसमायुक्तः प्राप्नुते जीव एव ह ॥ २९ ॥
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् ।देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ ३० ॥
युधिष्ठिर उवाच ।त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः ।जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥ ३१ ॥
बृहस्पतिरुवाच ।जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः ।स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ॥ ३२ ॥
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् ।दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ ३३ ॥
इहलोके च स प्राणी जन्मप्रभृति पार्थिव ।स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ ३४ ॥
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते ।ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ ३५ ॥
अथान्तरा तु धर्मस्य अधर्ममुपसेवते ।सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ ३६ ॥
अधर्मेण समायुक्तो यमस्य विषयं गतः ।महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ ३७ ॥
कर्मणा येन येनेह यस्यां योनौ प्रजायते ।जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥ ३८ ॥
यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि ।यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥ ३९ ॥
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः ।पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ ४० ॥
खरो जीवति वर्षाणि दश पञ्च च भारत ।खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ ४१ ॥
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः ।ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ॥ ४२ ॥
पतितं याजयित्वा तु कृमियोनौ प्रजायते ।तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ ४३ ॥
कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः ।गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः ।श्वा वर्षमेकं भवति ततो जायति मानवः ॥ ४४ ॥
उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् ।स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥ ४५ ॥
प्राक्श्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः ।ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ॥ ४६ ॥
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् ।सोऽधमान्याति संसारानधर्मेणेह चेतसा ॥ ४७ ॥
श्वयोनौ तु स संभूतस्त्रीणि वर्षाणि जीवति ।तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥ ४८ ॥
कृमिभावमनुप्राप्तो वर्षमेकं स जीवति ।ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ ४९ ॥
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे ।आत्मनः कामकारेण सोऽपि हंसः प्रजायते ॥ ५० ॥
पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते ।सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः ॥ ५१ ॥
खरो जीवति मासांस्तु दश श्वा च चतुर्दश ।बिडालः सप्त मासांस्तु ततो जायति मानवः ॥ ५२ ॥
मातापितरमाक्रुश्य सारिकः संप्रजायते ।ताडयित्वा तु तावेव जायते कच्छपो नृप ॥ ५३ ॥
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः ।व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥ ५४ ॥
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते ।सोऽपि मोहसमापन्नो मृतो जायति वानरः ॥ ५५ ॥
वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः ।श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ॥ ५६ ॥
न्यासापहर्ता तु नरो यमस्य विषयं गतः ।संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ ५७ ॥
तत्र जीवति वर्षाणि दश पञ्च च भारत ।दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ॥ ५८ ॥
असूयको नरश्चापि मृतो जायति शार्ङ्गकः ।विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥ ५९ ॥
भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत ।मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ ६० ॥
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।कीटः संजायते जन्तुस्ततो जायति मानुषः ॥ ६१ ॥
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् ।कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ ६२ ॥
सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः ।स जायते महाराज मूषको निरपत्रपः ॥ ६३ ॥
ततः प्रेत्य महाराज पुनर्जायति सूकरः ।सूकरो जातमात्रस्तु रोगेण म्रियते नृप ॥ ६४ ॥
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ।श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः ॥ ६५ ॥
परदाराभिमर्शं तु कृत्वा जायति वै वृकः ।श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ ६६ ॥
भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः ।पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥ ६७ ॥
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च ।प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥ ६८ ॥
सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः ।पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च ।एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥ ६९ ॥
तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश ।ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ॥ ७० ॥
उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो ।मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥ ७१ ॥
कृमिर्जीवति वर्षाणि दश पञ्च च भारत ।अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ ७२ ॥
पूर्वं दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति ।सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥ ७३ ॥
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर ।अधर्मसंक्षये युक्तस्ततो जायति मानुषः ॥ ७४ ॥
देवकार्यमुपाकृत्य पितृकार्यमथापि च ।अनिर्वाप्य समश्नन्वै ततो जायति वायसः ॥ ७५ ॥
वायसो दश वर्षाणि ततो जायति कुक्कुटः ।जायते लवकश्चापि मासं तस्मात्तु मानुषः ॥ ७६ ॥
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ।सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥ ७७ ॥
क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च ।ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥ ७८ ॥
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।तत्रापत्यं समुत्पाद्य ततो जायति मूषकः ॥ ७९ ॥
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः ।यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् ॥ ८० ॥
पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् ।असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ॥ ८१ ॥
एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः ।यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥ ८२ ॥
संसारचक्रमासाद्य कृमियोनौ प्रजायते ।कृमिर्भवति वर्षाणि दश पञ्च च भारत ।ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥ ८३ ॥
ततो गर्भशतैर्जन्तुर्बहुभिः संप्रजायते ।संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ॥ ८४ ॥
मृतो दुःखमनुप्राप्य बहुवर्षगणानिह ।अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते ॥ ८५ ॥
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः ।अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥ ८६ ॥
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते ।स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ ८७ ॥
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः ।हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥ ८८ ॥
मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते ।श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ ८९ ॥
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः ।अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ ९० ॥
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः ।बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ॥ ९१ ॥
ततः पश्चान्महाराज कृमियोनौ प्रजायते ।कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥ ९२ ॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।मक्षिकासंघवशगो बहून्मासान्भवत्युत ।ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ॥ ९३ ॥
वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते ।तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः ।स जायते बभ्रुसमो दारुणो मूषको नरः ॥ ९४ ॥
लवणं चोरयित्वा तु चीरीवाकः प्रजायते ।दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ॥ ९५ ॥
चोरयित्वा पयश्चापि बलाका संप्रजायते ।यस्तु चोरयते तैलं तैलपायी प्रजायते ।चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ॥ ९६ ॥
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः ।पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ॥ ९७ ॥
हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते ।फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ॥ ९८ ॥
कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ।राजतं भाजनं हृत्वा कपोतः संप्रजायते ॥ ९९ ॥
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ॥ १०० ॥
चोरयित्वा नरः पट्टं त्वाविकं वापि भारत ।क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥ १०१ ॥
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः ।हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥ १०२ ॥
वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः ।छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः ॥ १०३ ॥
विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः ।स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते ॥ १०४ ॥
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः ।मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥ १०५ ॥
पापानि तु नरः कृत्वा तिर्यग्जायति भारत ।न चात्मनः प्रमाणं ते धर्मं जानन्ति किंचन ॥ १०६ ॥
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ।सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ॥ १०७ ॥
असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः ।नराः पापसमाचारा लोभमोहसमन्विताः ॥ १०८ ॥
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः ।अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ १०९ ॥
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ।एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः ॥ ११० ॥
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः ।एतद्वै लेशमात्रेण कथितं ते मयानघ ।अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ॥ १११ ॥
एतन्मया महाराज ब्रह्मणो वदतः पुरा ।सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ॥ ११२ ॥
मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् ।एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ ११३ ॥
« »