Click on words to see what they mean.

युधिष्ठिर उवाच ।कथं स वै विपन्नश्च कथं वै पातितो भुवि ।कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥ १ ॥
भीष्म उवाच ।एवं तयोः संवदतोः क्रियास्तस्य महात्मनः ।सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ॥ २ ॥
तथैव दीपदानानि सर्वोपकरणानि च ।बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः ।सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ॥ ३ ॥
देवलोके नृलोके च सदाचारा बुधैः स्मृताः ।ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ।धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥ ४ ॥
यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते ।बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥ ५ ॥
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा ।तथा शतगुणा प्रीतिर्देवतानां स्म जायते ॥ ६ ॥
एवं धूपप्रदानं च दीपदानं च साधवः ।प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ॥ ७ ॥
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता ।नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ।गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ॥ ८ ॥
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः ।सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥ ९ ॥
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते ।सर्वमेतदवज्ञाय न चकारैतदीदृशम् ॥ १० ॥
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः ।धूपदीपोदकविधिं न यथावच्चकार ह ।ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥ ११ ॥
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ।द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥ १२ ॥
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् ।निमीलयस्व नयने जटा यावद्विशामि ते ॥ १३ ॥
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः ।भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥ १४ ॥
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै ।ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ॥ १५ ॥
योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते ।यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ॥ १६ ॥
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् ।भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ॥ १७ ॥
न चापि दर्शनं तस्य चकार स भृगुस्तदा ।वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥ १८ ॥
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै ।तं तु राजा प्रतोदेन चोदयामास भारत ॥ १९ ॥
न चुकोप स धर्मात्मा ततः पादेन देवराट् ।अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥ २० ॥
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः ।शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥ २१ ॥
भृगुरुवाच ।यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् ।तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥ २२ ॥
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह ।अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ २३ ॥
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते ।न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ॥ २४ ॥
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ।पतितोऽपि महाराज भूतले स्मृतिमानभूत् ।प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥ २५ ॥
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् ।शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥ २६ ॥
भृगुरुवाच ।राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः ।स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ॥ २७ ॥
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः ।स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥ २८ ॥
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः ।जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ॥ २९ ॥
तदा तु पातयित्वा तं नहुषं भूतले भृगुः ।जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ॥ ३० ॥
ततः शक्रं समानाय्य देवानाह पितामहः ।वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ।स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥ ३१ ॥
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् ।तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥ ३२ ॥
एवं संभाषमाणं तु देवाः पार्थ पितामहम् ।एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ॥ ३३ ॥
सोऽभिषिक्तो भगवता देवराज्येन वासवः ।ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥ ३४ ॥
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् ।स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥ ३५ ॥
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः ।दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ।पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥ ३६ ॥
यावदक्षिनिमेषाणि ज्वलते तावतीः समाः ।रूपवान्धनवांश्चापि नरो भवति दीपदः ॥ ३७ ॥
« »