Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ ।नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥ २ ॥
राजन्य उवाच ।वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे ।श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥ ३ ॥
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते ।कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ॥ ४ ॥
चण्डाल उवाच ।ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा ।सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ॥ ५ ॥
दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् ।सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥ ६ ॥
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः ।ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥ ७ ॥
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः ।पशूनवेक्षमाणाश्च साधुवृत्तेन दंपती ॥ ८ ॥
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः ।तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥ ९ ॥
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः ।ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥ १० ॥
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किंचन ।ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ॥ ११ ॥
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता ।विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ॥ १२ ॥
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः ।ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥ १३ ॥
सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् ।श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ।नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ॥ १४ ॥
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् ।तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥ १५ ॥
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् ।अतिमानेन भूतानामिमां गतिमुपागतम् ॥ १६ ॥
अहं वै विपुले जातः कुले धनसमन्विते ।अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ॥ १७ ॥
अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा ।संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ॥ १८ ॥
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै ।इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम् ॥ १९ ॥
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् ।धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ॥ २० ॥
स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः ।दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ॥ २१ ॥
तथा पापकृतं विप्रमाश्रमस्थं महीपते ।सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥ २२ ॥
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ ।निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥ २३ ॥
जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा ।शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥ २४ ॥
त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते ।चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥ २५ ॥
राजन्य उवाच ।चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि ।ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥ २६ ॥
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् ।हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥ २७ ॥
भीष्म उवाच ।इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परंतप ।हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥ २८ ॥
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ ।यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ॥ २९ ॥
« »