Click on words to see what they mean.

युधिष्ठिर उवाच ।श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् ।फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥ १ ॥
धूपप्रदानस्य फलं प्रदीपस्य तथैव च ।बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥ २ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ॥ ३ ॥
नहुषो हि महाराज राजर्षिः सुमहातपाः ।देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥ ४ ॥
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् ।मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥ ५ ॥
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः ।प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥ ६ ॥
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा ।बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥ ७ ॥
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः ।जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥ ८ ॥
दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः ।सर्वाण्येव यथान्यायं यथापूर्वमरिंदम ॥ ९ ॥
अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत् ।सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ॥ १० ॥
स ऋषीन्वाहयामास वरदानमदान्वितः ।परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् ॥ ११ ॥
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् ।अहंकाराभिभूतस्य सुमहानत्यवर्तत ॥ १२ ॥
अथ पर्यायश ऋषीन्वाहनायोपचक्रमे ।पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥ १३ ॥
अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः ।अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥ १४ ॥
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः ।नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ १५ ॥
अगस्त्य उवाच ।कथमेष मया शक्यः शप्तुं यस्य महामुने ।वरदेन वरो दत्तो भवतो विदितश्च सः ॥ १६ ॥
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति ।इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ॥ १७ ॥
एवं न दग्धः स मया भवता च न संशयः ।अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ॥ १८ ॥
अमृतं चैव पानाय दत्तमस्मै पुरा विभो ।महात्मने तदर्थं च नास्माभिर्विनिपात्यते ॥ १९ ॥
प्रायच्छत वरं देवः प्रजानां दुःखकारकम् ।द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥ २० ॥
अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर ।भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ॥ २१ ॥
भृगुरुवाच ।पितामहनियोगेन भवन्तमहमागतः ।प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते ॥ २२ ॥
अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् ।अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥ २३ ॥
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् ।संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ॥ २४ ॥
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति ।दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥ २५ ॥
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् ।अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥ २६ ॥
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम् ।धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ॥ २७ ॥
नहुषं पापकर्माणमैश्वर्यबलमोहितम् ।यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥ २८ ॥
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः ।अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥ २९ ॥
« »