Click on words to see what they mean.

युधिष्ठिर उवाच ।आलोकदानं नामैतत्कीदृशं भरतर्षभ ।कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥ २ ॥
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः ।वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ॥ ३ ॥
कुलशीलगुणोपेतः स्वाध्याये च परं गतः ।बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ॥ ४ ॥
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च ।कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ॥ ५ ॥
ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते ।रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥ ६ ॥
तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः ।ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥ ७ ॥
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् ।हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥ ८ ॥
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर ।किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ॥ ९ ॥
मनुरुवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।शुक्रस्य च बलेश्चैव संवादं वै समागमे ॥ १० ॥
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः ।समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥ ११ ॥
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः ।निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥ १२ ॥
कथेयमभवत्तत्र या त्वया परिकीर्तिता ।सुमनोधूपदीपानां संप्रदाने फलं प्रति ॥ १३ ॥
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ।सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ।प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥ १४ ॥
शुक्र उवाच ।तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् ।एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥ १५ ॥
सोमस्यात्मा च बहुधा संभूतः पृथिवीतले ।अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥ १६ ॥
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च ।मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥ १७ ॥
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् ।ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम् ॥ १८ ॥
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह ।तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥ १९ ॥
देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ॥ २० ॥
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो ।मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥ २१ ॥
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् ।ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ॥ २२ ॥
यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे ।आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥ २३ ॥
राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः ।पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ॥ २४ ॥
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः ।अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ॥ २५ ॥
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः ।इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ॥ २६ ॥
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः ।तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥ २७ ॥
जलजानि च माल्यानि पद्मादीनि च यानि च ।गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥ २८ ॥
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः ।शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥ २९ ॥
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः ।रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥ ३० ॥
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः ।चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥ ३१ ॥
न तु श्मशानसंभूता न देवायतनोद्भवाः ।संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥ ३२ ॥
गिरिसानुरुहाः सौम्या देवानामुपपादयेत् ।प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥ ३३ ॥
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः ।नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥ ३४ ॥
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत ।संकल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ॥ ३५ ॥
देवाः प्रीणन्ति सततं मानिता मानयन्ति च ।अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥ ३६ ॥
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् ।धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥ ३७ ॥
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः ।इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ॥ ३८ ॥
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते ।गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥ ३९ ॥
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् ।दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥ ४० ॥
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः ।फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥ ४१ ॥
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः ।येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ॥ ४२ ॥
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः ।धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥ ४३ ॥
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् ।यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ ४४ ॥
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते ।प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥ ४५ ॥
अन्धं तमस्तमिस्रं च दक्षिणायनमेव च ।उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥ ४६ ॥
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् ।तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ॥ ४७ ॥
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः ।तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ॥ ४८ ॥
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥ ४९ ॥
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः ।दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥ ५० ॥
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः ।वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥ ५१ ॥
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे ।दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ ५२ ॥
कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति ।ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥ ५३ ॥
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् ।देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥ ५४ ॥
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः ।राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥ ५५ ॥
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ।शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥ ५६ ॥
गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा ।बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥ ५७ ॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ॥ ५८ ॥
बलयः सह पुष्पैस्तु देवानामुपहारयेत् ।दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ॥ ५९ ॥
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् ।सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ॥ ६० ॥
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः ।तिलान्गुडसुसंपन्नान्भूतानामुपहारयेत् ॥ ६१ ॥
अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः ।तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥ ६२ ॥
ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः ।ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥ ६३ ॥
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः ।सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥ ६४ ॥
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते ।त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ ६५ ॥
« »