Click on words to see what they mean.

युधिष्ठिर उवाच ।यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते ।कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।यथादेशं यथाकालमपि चैव यथाबलम् ।अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥ २ ॥
यथा तासां च मन्येत श्रेय आत्मन एव च ।तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ॥ ३ ॥
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत् ।वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥ ४ ॥
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप ।व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ॥ ५ ॥
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत् ।ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ॥ ६ ॥
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत् ।मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥ ७ ॥
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः ।उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ॥ ८ ॥
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः ।यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ॥ ९ ॥
ततस्तान्भेदयित्वाथ परस्परविवक्षितान् ।भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ॥ १० ॥
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् ।आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥ ११ ॥
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता ।अनुपायेन दमयन्प्रकोपयति वाजिनः ॥ १२ ॥
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा ।कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥ १३ ॥
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः ।एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥ १४ ॥
न केनचिद्याचितव्यः कश्चित्किंचिदनापदि ।इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥ १५ ॥
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह ।सर्व एव त्रयो लोका न भवेयुरसंशयम् ॥ १६ ॥
प्रभुर्नियमने राजा य एतान्न नियच्छति ।भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ।तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ॥ १७ ॥
स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनः ।कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥ १८ ॥
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः ।दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ॥ १९ ॥
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः ।इष्टादातार एवैते नैते भूतस्य भावकाः ॥ २० ॥
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः ।ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ॥ २१ ॥
दण्ड्यास्ते च महाराज धनादानप्रयोजनाः ।प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ॥ २२ ॥
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किंचिदीदृशम् ।पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ॥ २३ ॥
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः ।संशयं लभते किंचित्तेन राजा विगर्ह्यते ॥ २४ ॥
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः ।वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ॥ २५ ॥
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत ।ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥ २६ ॥
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च ।तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ॥ २७ ॥
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव ।सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥ २८ ॥
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे ।सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ॥ २९ ॥
« »