Click on words to see what they mean.

युधिष्ठिर उवाच ।राष्ट्रगुप्तिं च मे राजन्राष्ट्रस्यैव च संग्रहम् ।सम्यग्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ १ ॥
भीष्म उवाच ।राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च संग्रहम् ।हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥ २ ॥
ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः ।द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् ॥ ३ ॥
ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत् ।तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै ॥ ४ ॥
सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने ।ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ॥ ५ ॥
यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात् ।दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ॥ ६ ॥
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः ।महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम् ।तत्र ह्यनेकमायत्तं राज्ञो भवति भारत ॥ ७ ॥
शाखानगरमर्हस्तु सहस्रपतिरुत्तमम् ।धान्यहैरण्यभोगेन भोक्तुं राष्ट्रिय उद्यतः ॥ ८ ॥
तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम् ।धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः ॥ ९ ॥
नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः ।उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः ।भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् ॥ १० ॥
विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् ।योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत्करान् ॥ ११ ॥
उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत् ।शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् ॥ १२ ॥
उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर ।यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः ॥ १३ ॥
फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत् ।फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तयेत् ॥ १४ ॥
यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ ।समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः ॥ १५ ॥
नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया ।ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः ॥ १६ ॥
प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् ।प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम् ॥ १७ ॥
वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना ।भृतो वत्सो जातबलः पीडां सहति भारत ॥ १८ ॥
न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर ।राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ॥ १९ ॥
यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः ।संजातमुपजीवन्स लभते सुमहत्फलम् ॥ २० ॥
आपदर्थं हि निचयान्राजान इह चिन्वते ।राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ॥ २१ ॥
पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा ।यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि ॥ २२ ॥
बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् ।एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः ॥ २३ ॥
प्रागेव तु करादानमनुभाष्य पुनः पुनः ।संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥ २४ ॥
इयमापत्समुत्पन्ना परचक्रभयं महत् ।अपि नान्ताय कल्पेत वेणोरिव फलागमः ॥ २५ ॥
अरयो मे समुत्थाय बहुभिर्दस्युभिः सह ।इदमात्मवधायैव राष्ट्रमिच्छन्ति बाधितुम् ॥ २६ ॥
अस्यामापदि घोरायां संप्राप्ते दारुणे भये ।परित्राणाय भवतां प्रार्थयिष्ये धनानि वः ॥ २७ ॥
प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये ।नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥ २८ ॥
कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि ।अपि चेत्पुत्रदारार्थमर्थसंचय इष्यते ॥ २९ ॥
नन्दामि वः प्रभावेन पुत्राणामिव चोदये ।यथाशक्त्यनुगृह्णामि राष्ट्रस्यापीडया च वः ॥ ३० ॥
आपत्स्वेव च वोढव्यं भवद्भिः सद्गवैरिव ।न वः प्रियतरं कार्यं धनं कस्यांचिदापदि ॥ ३१ ॥
इति वाचा मधुरया श्लक्ष्णया सोपचारया ।स्वरश्मीनभ्यवसृजेद्युगमादाय कालवित् ॥ ३२ ॥
प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् ।योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत्करान् ॥ ३३ ॥
उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः ।तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ॥ ३४ ॥
सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः ।गोमिनां पार्थ कर्तव्यं संविभागाः प्रियाणि च ॥ ३५ ॥
अजस्रमुपयोक्तव्यं फलं गोमिषु सर्वतः ।प्रभावयति राष्ट्रं च व्यवहारं कृषिं तथा ॥ ३६ ॥
तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः ।दयावानप्रमत्तश्च करान्संप्रणयन्मृदून् ॥ ३७ ॥
सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः ।न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर ॥ ३८ ॥
« »