Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ॥ १ ॥
शक्र उवाच ।किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन् ।प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ २ ॥
बृहस्पतिरुवाच ।सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् ।प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥ ३ ॥
एतदेकपदं शक्र सर्वलोकसुखावहम् ।आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ॥ ४ ॥
यो हि नाभाषते किंचित्सततं भ्रुकुटीमुखः ।द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ॥ ५ ॥
यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते ।स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ॥ ६ ॥
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् ।न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ॥ ७ ॥
अदाता ह्यपि भूतानां मधुरामीरयन्गिरम् ।सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ॥ ८ ॥
तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह ।फलं च जनयत्येवं न चास्योद्विजते जनः ॥ ९ ॥
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥ १० ॥
भीष्म उवाच ।इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा ।तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ॥ ११ ॥
« »