Click on words to see what they mean.

भीष्म उवाच ।ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः ।शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥ १ ॥
अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान् ।सुसंतुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ॥ २ ॥
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत ।कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ॥ ३ ॥
प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा ।आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः ॥ ४ ॥
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः ।प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥ ५ ॥
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः ।ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥ ६ ॥
अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान् ।यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ॥ ७ ॥
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः ।न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥ ८ ॥
अनार्या ये न जानन्ति समयं मन्दचेतसः ।तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ॥ ९ ॥
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः ।यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥ १० ॥
श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते ।कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥ ११ ॥
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः ।न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥ १२ ॥
अमानी सत्यवाक्शक्तो जितात्मा मान्यमानिता ।स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः ॥ १३ ॥
कुलीनः सत्यसंपन्नस्तितिक्षुर्दक्ष आत्मवान् ।शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥ १४ ॥
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः ।अमित्राः संप्रसीदन्ति ततो मित्रीभवन्त्यपि ॥ १५ ॥
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान् ।संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥ १६ ॥
संबद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः ।अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः ॥ १७ ॥
योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः ।कर्तव्या भूतिकामेन पुरुषेण बुभूषता ॥ १८ ॥
येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना ।तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः ॥ १९ ॥
परीक्षितगुणान्नित्यं प्रौढभावान्धुरंधरान् ।पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः ॥ २० ॥
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् ।कुलीनान्सत्यसंपन्नानिङ्गितज्ञाननिष्ठुरान् ॥ २१ ॥
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः ।नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥ २२ ॥
हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति ।अवश्यं जनयत्येव सर्वकर्मसु संशयान् ॥ २३ ॥
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् ॥ २४ ॥
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः ।अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥ २५ ॥
यो वा ह्यस्थिरसंकल्पो बुद्धिमानागतागमः ।उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् ॥ २६ ॥
केवलात्पुनराचारात्कर्मणो नोपपद्यते ।परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः ॥ २७ ॥
मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते ।तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥ २८ ॥
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः ।मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥ २९ ॥
संक्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति ।वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति ॥ ३० ॥
तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् ।मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥ ३१ ॥
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया ।समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥ ३२ ॥
अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः ।राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥ ३३ ॥
योऽमित्रैः सह संबद्धो न पौरान्बहु मन्यते ।स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति ॥ ३४ ॥
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः ।स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥ ३५ ॥
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः ।सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥ ३६ ॥
यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् ।पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥ ३७ ॥
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः ।सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥ ३८ ॥
ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः ।सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥ ३९ ॥
सत्यवाक्शीलसंपन्नो गम्भीरः सत्रपो मृदुः ।पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥ ४० ॥
संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः ।मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥ ४१ ॥
सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे ।तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ॥ ४२ ॥
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः ।योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥ ४३ ॥
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः ।मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ॥ ४४ ॥
स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च ।मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥ ४५ ॥
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ।गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ४६ ॥
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः ।मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ॥ ४७ ॥
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते ।स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः ॥ ४८ ॥
स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः ।नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥ ४९ ॥
तेषां त्रयाणां विविधं विमर्शं बुध्येत चित्तं विनिवेश्य तत्र ।स्वनिश्चयं तं परनिश्चयं च निवेदयेदुत्तरमन्त्रकाले ॥ ५० ॥
धर्मार्थकामज्ञमुपेत्य पृच्छेद्युक्तो गुरुं ब्राह्मणमुत्तमार्थम् ।निष्ठा कृता तेन यदा सह स्यात्तं तत्र मार्गं प्रणयेदसक्तम् ॥ ५१ ॥
एवं सदा मन्त्रयितव्यमाहुर्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः ।तस्मात्त्वमेवं प्रणयेः सदैव मन्त्रं प्रजासंग्रहणे समर्थम् ॥ ५२ ॥
न वामनाः कुब्जकृशा न खञ्जा नान्धा जडाः स्त्री न नपुंसकं च ।न चात्र तिर्यङ्न पुरो न पश्चान्नोर्ध्वं न चाधः प्रचरेत कश्चित् ॥ ५३ ॥
आरुह्य वातायनमेव शून्यं स्थलं प्रकाशं कुशकाशहीनम् ।वागङ्गदोषान्परिहृत्य मन्त्रं संमन्त्रयेत्कार्यमहीनकालम् ॥ ५४ ॥
« »