Click on words to see what they mean.

भीष्म उवाच ।य एव तु सतो रक्षेदसतश्च निबर्हयेत् ।स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥ १ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।पुरूरवस ऐलस्य संवादं मातरिश्वनः ॥ २ ॥
ऐल उवाच ।कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः ।कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ॥ ३ ॥
वायुरुवाच ।ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम ।बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ॥ ४ ॥
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ ।वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ॥ ५ ॥
ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत ।ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ ६ ॥
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम् ।द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥ ७ ॥
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान् ।शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ॥ ८ ॥
ऐल उवाच ।द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत् ।धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥ ९ ॥
वायुरुवाच ।विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम् ।ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥ १० ॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥ ११ ॥
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम् ।आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ॥ १२ ॥
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः ।यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ॥ १३ ॥
यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् ।श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ॥ १४ ॥
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् ।यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ॥ १५ ॥
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् ।श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ॥ १६ ॥
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् ।शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ॥ १७ ॥
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति ।तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ॥ १८ ॥
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः ।सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥ १९ ॥
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः ।चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ॥ २० ॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ॥ २१ ॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ॥ २२ ॥
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति ।अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ॥ २३ ॥
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ।तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ॥ २४ ॥
अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥ २५ ॥
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च ।राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ॥ २६ ॥
« »