Click on words to see what they mean.

भीष्म उवाच ।राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः ।उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥ १ ॥
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः ।राजा चैवंगुणो येषां कुशलं तेषु सर्वशः ॥ २ ॥
उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन् ।यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥ ३ ॥
परस्परस्य सुहृदौ संमतौ समचेतसौ ।ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ॥ ४ ॥
विमाननात्तयोरेव प्रजा नश्येयुरेव ह ।ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ॥ ५ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥ ६ ॥
ऐल उवाच ।यदा हि ब्रह्म प्रजहाति क्षत्रं क्षत्रं यदा वा प्रजहाति ब्रह्म ।अन्वग्बलं कतमेऽस्मिन्भजन्ते तथाबल्यं कतमेऽस्मिन्वियन्ति ॥ ७ ॥
कश्यप उवाच ।व्यृद्धं राष्ट्रं भवति क्षत्रियस्य ब्रह्म क्षत्रं यत्र विरुध्यते ह ।अन्वग्बलं दस्यवस्तद्भजन्तेऽबल्यं तथा तत्र वियन्ति सन्तः ॥ ८ ॥
नैषामुक्षा वर्धते नोत उस्रा न गर्गरो मथ्यते नो यजन्ते ।नैषां पुत्रा वेदमधीयते च यदा ब्रह्म क्षत्रियाः संत्यजन्ति ॥ ९ ॥
नैषामुक्षा वर्धते जातु गेहे नाधीयते सप्रजा नो यजन्ते ।अपध्वस्ता दस्युभूता भवन्ति ये ब्राह्मणाः क्षत्रियान्संत्यजन्ति ॥ १० ॥
एतौ हि नित्यसंयुक्तावितरेतरधारणे ।क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ॥ ११ ॥
उभावेतौ नित्यमभिप्रपन्नौ संप्रापतुर्महतीं श्रीप्रतिष्ठाम् ।तयोः संधिर्भिद्यते चेत्पुराणस्ततः सर्वं भवति हि संप्रमूढम् ॥ १२ ॥
नात्र प्लवं लभते पारगामी महागाधे नौरिव संप्रणुन्ना ।चातुर्वर्ण्यं भवति च संप्रमूढं ततः प्रजाः क्षयसंस्था भवन्ति ॥ १३ ॥
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति ।अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥ १४ ॥
अब्रह्मचारी चरणादपेतो यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत् ।आश्चर्यशो वर्षति तत्र देवस्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ॥ १५ ॥
स्त्रियं हत्वा ब्राह्मणं वापि पापः सभायां यत्र लभतेऽनुवादम् ।राज्ञः सकाशे न बिभेति चापि ततो भयं जायते क्षत्रियस्य ॥ १६ ॥
पापैः पापे क्रियमाणेऽतिवेलं ततो रुद्रो जायते देव एषः ।पापैः पापाः संजनयन्ति रुद्रं ततः सर्वान्साध्वसाधून्हिनस्ति ॥ १७ ॥
ऐल उवाच ।कुतो रुद्रः कीदृशो वापि रुद्रः सत्त्वैः सत्त्वं दृश्यते वध्यमानम् ।एतद्विद्वन्कश्यप मे प्रचक्ष्व यतो रुद्रो जायते देव एषः ॥ १८ ॥
कश्यप उवाच ।आत्मा रुद्रो हृदये मानवानां स्वं स्वं देहं परदेहं च हन्ति ।वातोत्पातैः सदृशं रुद्रमाहुर्दावैर्जीमूतैः सदृशं रूपमस्य ॥ १९ ॥
ऐल उवाच ।न वै वातं परिवृनोति कश्चिन्न जीमूतो वर्षति नैव दावः ।तथायुक्तो दृश्यते मानवेषु कामद्वेषाद्बध्यते मुच्यते च ॥ २० ॥
कश्यप उवाच ।यथैकगेहे जातवेदाः प्रदीप्तः कृत्स्नं ग्रामं प्रदहेत्स त्वरावान् ।विमोहनं कुरुते देव एष ततः सर्वं स्पृश्यते पुण्यपापैः ॥ २१ ॥
ऐल उवाच ।यदि दण्डः स्पृशते पुण्यभाजं पापैः पापे क्रियमाणेऽविशेषात् ।कस्य हेतोः सुकृतं नाम कुर्याद्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥ २२ ॥
कश्यप उवाच ।असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।शुष्केणार्द्रं दह्यते मिश्रभावान्न मिश्रः स्यात्पापकृद्भिः कथंचित् ॥ २३ ॥
ऐल उवाच ।साध्वसाधून्धारयतीह भूमिः साध्वसाधूंस्तापयतीह सूर्यः ।साध्वसाधून्वातयतीह वायुरापस्तथा साध्वसाधून्वहन्ति ॥ २४ ॥
कश्यप उवाच ।एवमस्मिन्वर्तते लोक एव नामुत्रैवं वर्तते राजपुत्र ।प्रेत्यैतयोरन्तरवान्विशेषो यो वै पुण्यं चरते यश्च पापम् ॥ २५ ॥
पुण्यस्य लोको मधुमान्घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः ।तत्र प्रेत्य मोदते ब्रह्मचारी न तत्र मृत्युर्न जरा नोत दुःखम् ॥ २६ ॥
पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखः शोकभूयिष्ठ एव ।तत्रात्मानं शोचते पापकर्मा बह्वीः समाः प्रपतन्नप्रतिष्ठः ॥ २७ ॥
मिथो भेदाद्ब्राह्मणक्षत्रियाणां प्रजा दुःखं दुःसहं चाविशन्ति ।एवं ज्ञात्वा कार्य एवेह विद्वान्पुरोहितो नैकविद्यो नृपेण ॥ २८ ॥
तं चैवान्वभिषिच्येत तथा धर्मो विधीयते ।अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ॥ २९ ॥
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः ।ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ॥ ३० ॥
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक् ।सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ॥ ३१ ॥
अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि ।ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ॥ ३२ ॥
« »