Click on words to see what they mean.

युधिष्ठिर उवाच ।दण्डनीतिश्च राजा च समस्तौ तावुभावपि ।कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः ।शृणु मे शंसतो राजन्यथावदिह भारत ॥ २ ॥
दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति ।प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ॥ ३ ॥
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे ।दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ॥ ४ ॥
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि ।तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् ॥ ५ ॥
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥ ६ ॥
दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते ।तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥ ७ ॥
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् ।सर्वेषामेव वर्णानां नाधर्मे रमते मनः ॥ ८ ॥
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः ।वैदिकानि च कर्माणि भवन्त्यविगुणान्युत ॥ ९ ॥
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः ।प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ॥ १० ॥
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः ।विधवा न भवन्त्यत्र नृशंसो नाभिजायते ॥ ११ ॥
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा ।त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥ १२ ॥
नाधर्मो विद्यते तत्र धर्म एव तु केवलः ।इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ॥ १३ ॥
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते ।चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ॥ १४ ॥
अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते ।कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ॥ १५ ॥
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते ।ततस्तु द्वापरं नाम स कालः संप्रवर्तते ॥ १६ ॥
अशुभस्य तदा अर्धं द्वावंशावनुवर्तते ।कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा ॥ १७ ॥
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः ।प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः ॥ १८ ॥
कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् ।सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ॥ १९ ॥
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया ।योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः ॥ २० ॥
वैदिकानि च कर्माणि भवन्ति विगुणान्युत ।ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा ॥ २१ ॥
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत ।व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः ॥ २२ ॥
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा ।क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ॥ २३ ॥
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः ।प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ॥ २४ ॥
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ २५ ॥
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते ।त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥ २६ ॥
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ।कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥ २७ ॥
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ॥ २८ ॥
दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा ।अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् ॥ २९ ॥
लोकस्य सीमन्तकरी मर्यादा लोकभावनी ।सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता ॥ ३० ॥
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ ।एष एव परो धर्मो यद्राजा दण्डनीतिमान् ॥ ३१ ॥
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् ।एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ॥ ३२ ॥
« »