Click on words to see what they mean.

युधिष्ठिर उवाच ।पार्थिवेन विशेषेण किं कार्यमवशिष्यते ।कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ॥ १ ॥
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम् ।कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥ २ ॥
भीष्म उवाच ।राजवृत्तं महाराज शृणुष्वावहितोऽखिलम् ।यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥ ३ ॥
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥ ४ ॥
एतावानात्मविजयः पञ्चवर्गविनिग्रहः ।जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ॥ ५ ॥
न्यसेत गुल्मान्दुर्गेषु संधौ च कुरुनन्दन ।नगरोपवने चैव पुरोद्यानेषु चैव ह ॥ ६ ॥
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च ।मध्ये च नरशार्दूल तथा राजनिवेशने ॥ ७ ॥
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन् ।पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ॥ ८ ॥
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च ।पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥ ९ ॥
पुरे जनपदे चैव तथा सामन्तराजसु ।यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥ १० ॥
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ ।आपणेषु विहारेषु समवायेषु भिक्षुषु ॥ ११ ॥
आरामेषु तथोद्याने पण्डितानां समागमे ।वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥ १२ ॥
एवं विहन्याच्चारेण परचारं विचक्षणः ।चारेण विहतं सर्वं हतं भवति पाण्डव ॥ १३ ॥
यदा तु हीनं नृपतिर्विद्यादात्मानमात्मना ।अमात्यैः सह संमन्त्र्य कुर्यात्संधिं बलीयसा ॥ १४ ॥
अज्ञायमानो हीनत्वे कुर्यात्संधिं परेण वै ।लिप्सुर्वा कंचिदेवार्थं त्वरमाणो विचक्षणः ॥ १५ ॥
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये ।संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥ १६ ॥
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः ।पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥ १७ ॥
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः ।अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥ १८ ॥
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम् ।व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥ १९ ॥
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी ।पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥ २० ॥
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान् ।हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ॥ २१ ॥
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः ।अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ।वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥ २२ ॥
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ।सान्त्वेनानुप्रदानेन भेदेन च नराधिप ।यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ॥ २३ ॥
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन ।षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥ २४ ॥
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च ।तन्नाददीत सहसा पौराणां रक्षणाय वै ॥ २५ ॥
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः ।भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ॥ २६ ॥
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम् ।व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ॥ २७ ॥
आकरे लवणे शुल्के तरे नागवने तथा ।न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥ २८ ॥
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात् ।नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ॥ २९ ॥
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत् ।दानशीलश्च सततं यज्ञशीलश्च भारत ॥ ३० ॥
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः ।क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ॥ ३१ ॥
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा ।त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ॥ ३२ ॥
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि ।प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥ ३३ ॥
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत् ।धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥ ३४ ॥
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः ।असंभवे प्रवेशस्य दाहयेदग्निना भृशम् ॥ ३५ ॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान् ।विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ॥ ३६ ॥
नदीषु मार्गेषु सदा संक्रमानवसादयेत् ।जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ॥ ३७ ॥
तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम् ।प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ॥ ३८ ॥
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत् ।सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥ ३९ ॥
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा ।चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ॥ ४० ॥
प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा ।आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ॥ ४१ ॥
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह ।तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥ ४२ ॥
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा ।आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥ ४३ ॥
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत् ।संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ॥ ४४ ॥
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत् ।निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ॥ ४५ ॥
नक्तमेव च भक्तानि पाचयेत नराधिपः ।न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ॥ ४६ ॥
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः ।गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ॥ ४७ ॥
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत् ।प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ॥ ४८ ॥
भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान् ।बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ॥ ४९ ॥
चत्वरेषु च तीर्थेषु सभास्वावसथेषु च ।यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥ ५० ॥
विशालान्राजमार्गांश्च कारयेत नराधिपः ।प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥ ५१ ॥
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः ।अश्वागारान्गजागारान्बलाधिकरणानि च ॥ ५२ ॥
परिखाश्चैव कौरव्य प्रतोलीः संकटानि च ।न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ॥ ५३ ॥
अथ संनिचयं कुर्याद्राजा परबलार्दितः ।तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥ ५४ ॥
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम् ।यवसेन्धनदिग्धानां कारयेत च संचयान् ॥ ५५ ॥
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम् ।संचयानेवमादीनां कारयेत नराधिपः ॥ ५६ ॥
औषधानि च सर्वाणि मूलानि च फलानि च ।चतुर्विधांश्च वैद्यान्वै संगृह्णीयाद्विशेषतः ॥ ५७ ॥
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा ।शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥ ५८ ॥
यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः ।पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥ ५९ ॥
कृते कर्मणि राजेन्द्र पूजयेद्धनसंचयैः ।मानेन च यथार्हेण सान्त्वेन विविधेन च ॥ ६० ॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन ।गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ॥ ६१ ॥
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे ।आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ॥ ६२ ॥
तथा जनपदश्चैव पुरं च कुरुनन्दन ।एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥ ६३ ॥
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा ।यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ॥ ६४ ॥
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर ।संधायासनमित्येव यात्रासंधानमेव च ॥ ६५ ॥
विगृह्यासनमित्येव यात्रां संपरिगृह्य च ।द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ॥ ६६ ॥
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु ।क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ॥ ६७ ॥
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः ।धर्मेण हि महीपालश्चिरं पालयते महीम् ॥ ६८ ॥
अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम् ।यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥ ६९ ॥
कृत्वा सर्वाणि कार्याणि सम्यक्संपाल्य मेदिनीम् ।पालयित्वा तथा पौरान्परत्र सुखमेधते ॥ ७० ॥
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि ।अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ॥ ७१ ॥
« »