Click on words to see what they mean.

युधिष्ठिर उवाच ।श्रुता मे कथिताः पूर्वैश्चत्वारो मानवाश्रमाः ।व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ॥ १ ॥
भीष्म उवाच ।विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर ।यथा मम महाबाहो विदिताः साधुसंमताः ॥ २ ॥
यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर ।धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप ॥ ३ ॥
सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ ।साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ॥ ४ ॥
अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर ।समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् ॥ ५ ॥
वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा ।यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् ॥ ६ ॥
ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर ।समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ॥ ७ ॥
आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् ।कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ॥ ८ ॥
पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् ।दीक्षा बहुविधा राज्ञो वन्याश्रमपदं भवेत् ॥ ९ ॥
वेदाध्ययननित्यत्वं क्षमाथाचार्यपूजनम् ।तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ॥ १० ॥
अजिह्ममशठं मार्गं सेवमानस्य भारत ।सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ॥ ११ ॥
वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत ।प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ॥ १२ ॥
सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत ।आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् ॥ १३ ॥
बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर ।अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् ॥ १४ ॥
बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह ।शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् ॥ १५ ॥
चराचराणां भूतानां रक्षामपि च सर्वशः ।यथार्हपूजां च सदा कुर्वन्गार्हस्थ्यमावसेत् ॥ १६ ॥
ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् ।निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः ॥ १७ ॥
साधूनामर्चनीयानां प्रजासु विदितात्मनाम् ।पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ॥ १८ ॥
आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत ।आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर ॥ १९ ॥
यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् ।आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् ॥ २० ॥
यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा ।आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ॥ २१ ॥
स्थानमानं वयोमानं कुलमानं तथैव च ।कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ॥ २२ ॥
देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च ।पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ॥ २३ ॥
काले विभूतिं भूतानामुपहारांस्तथैव च ।अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ॥ २४ ॥
दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते ।सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी ॥ २५ ॥
ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः ।पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः ॥ २६ ॥
धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् ।पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥ २७ ॥
ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर ।ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ॥ २८ ॥
सर्वाश्रमपदे ह्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् ।पावनं पुरुषव्याघ्र यं वयं पर्युपास्महे ॥ २९ ॥
आत्मोपमस्तु भूतेषु यो वै भवति मानवः ।न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् ॥ ३० ॥
धर्मोत्थिता सत्त्ववीर्या धर्मसेतुवटाकरा ।त्यागवाताध्वगा शीघ्रा नौस्त्वा संतारयिष्यति ॥ ३१ ॥
यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः ।तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ॥ ३२ ॥
सुप्रसन्नस्तु भावेन योगेन च नराधिप ।धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ ३३ ॥
वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् ।पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ॥ ३४ ॥
वने चरति यो धर्ममाश्रमेषु च भारत ।रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ॥ ३५ ॥
एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः ।अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् ॥ ३६ ॥
चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव ।धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ ३७ ॥
« »