Click on words to see what they mean.

युधिष्ठिर उवाच ।चातुराश्रम्य उक्तोऽत्र चातुर्वर्ण्यस्तथैव च ।राष्ट्रस्य यत्कृत्यतमं तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।राष्ट्रस्यैतत्कृत्यतमं राज्ञ एवाभिषेचनम् ।अनिन्द्रमबलं राष्ट्रं दस्यवोऽभिभवन्ति च ॥ २ ॥
अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते ।परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ ३ ॥
इन्द्रमेनं प्रवृणुते यद्राजानमिति श्रुतिः ।यथैवेन्द्रस्तथा राजा संपूज्यो भूतिमिच्छता ॥ ४ ॥
नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् ।नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहत्यपि ॥ ५ ॥
अथ चेदभिवर्तेत राज्यार्थी बलवत्तरः ।अराजकानि राष्ट्राणि हतराजानि वा पुनः ॥ ६ ॥
प्रत्युद्गम्याभिपूज्यः स्यादेतदत्र सुमन्त्रितम् ।न हि पापात्पापतरमस्ति किंचिदराजकात् ॥ ७ ॥
स चेत्समनुपश्येत समग्रं कुशलं भवेत् ।बलवान्हि प्रकुपितः कुर्यान्निःशेषतामपि ॥ ८ ॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।सुदुहा या तु भवति नैव तां क्लेशयन्त्युत ॥ ९ ॥
यदतप्तं प्रणमति न तत्संतापयन्त्युत ।यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥ १० ॥
एतयोपमया धीरः संनमेत बलीयसे ।इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ११ ॥
तस्माद्राजैव कर्तव्यः सततं भूतिमिच्छता ।न धनार्थो न दारार्थस्तेषां येषामराजकम् ॥ १२ ॥
प्रीयते हि हरन्पापः परवित्तमराजके ।यदास्य उद्धरन्त्यन्ये तदा राजानमिच्छति ॥ १३ ॥
पापा अपि तदा क्षेमं न लभन्ते कदाचन ।एकस्य हि द्वौ हरतो द्वयोश्च बहवोऽपरे ॥ १४ ॥
अदासः क्रियते दासो ह्रियन्ते च बलात्स्त्रियः ।एतस्मात्कारणाद्देवाः प्रजापालान्प्रचक्रिरे ॥ १५ ॥
राजा चेन्न भवेल्लोके पृथिव्यां दण्डधारकः ।शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ १६ ॥
अराजकाः प्रजाः पूर्वं विनेशुरिति नः श्रुतम् ।परस्परं भक्षयन्तो मत्स्या इव जले कृशान् ॥ १७ ॥
ताः समेत्य ततश्चक्रुः समयानिति नः श्रुतम् ।वाक्क्रूरो दण्डपुरुषो यश्च स्यात्पारदारिकः ।यश्च न स्वमथादद्यात्त्याज्या नस्तादृशा इति ॥ १८ ॥
विश्वासनार्थं वर्णानां सर्वेषामविशेषतः ।तास्तथा समयं कृत्वा समये नावतस्थिरे ॥ १९ ॥
सहितास्तास्तदा जग्मुरसुखार्ताः पितामहम् ।अनीश्वरा विनश्यामो भगवन्नीश्वरं दिश ॥ २० ॥
यं पूजयेम संभूय यश्च नः परिपालयेत् ।ताभ्यो मनुं व्यादिदेश मनुर्नाभिननन्द ताः ॥ २१ ॥
मनुरुवाच ।बिभेमि कर्मणः क्रूराद्राज्यं हि भृशदुष्करम् ।विशेषतो मनुष्येषु मिथ्यावृत्तिषु नित्यदा ॥ २२ ॥
भीष्म उवाच ।तमब्रुवन्प्रजा मा भैः कर्मणैनो गमिष्यति ।पशूनामधिपञ्चाशद्धिरण्यस्य तथैव च ।धान्यस्य दशमं भागं दास्यामः कोशवर्धनम् ॥ २३ ॥
मुख्येन शस्त्रपत्रेण ये मनुष्याः प्रधानतः ।भवन्तं तेऽनुयास्यन्ति महेन्द्रमिव देवताः ॥ २४ ॥
स त्वं जातबलो राजन्दुष्प्रधर्षः प्रतापवान् ।सुखे धास्यसि नः सर्वान्कुबेर इव नैरृतान् ॥ २५ ॥
यं च धर्मं चरिष्यन्ति प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य धर्मस्य त्वत्संस्थं नो भविष्यति ॥ २६ ॥
तेन धर्मेण महता सुखलब्धेन भावितः ।पाह्यस्मान्सर्वतो राजन्देवानिव शतक्रतुः ॥ २७ ॥
विजयायाशु निर्याहि प्रतपन्रश्मिमानिव ।मानं विधम शत्रूणां धर्मो जयतु नः सदा ॥ २८ ॥
स निर्ययौ महातेजा बलेन महता वृतः ।महाभिजनसंपन्नस्तेजसा प्रज्वलन्निव ॥ २९ ॥
तस्य तां महिमां दृष्ट्वा महेन्द्रस्येव देवताः ।अपतत्रसिरे सर्वे स्वधर्मे च दधुर्मनः ॥ ३० ॥
ततो महीं परिययौ पर्जन्य इव वृष्टिमान् ।शमयन्सर्वतः पापान्स्वकर्मसु च योजयन् ॥ ३१ ॥
एवं ये भूतिमिच्छेयुः पृथिव्यां मानवाः क्वचित् ।कुर्यू राजानमेवाग्रे प्रजानुग्रहकारणात् ॥ ३२ ॥
नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा ।देवा इव सहस्राक्षं प्रजा राजानमन्तिके ॥ ३३ ॥
सत्कृतं स्वजनेनेह परोऽपि बहु मन्यते ।स्वजनेन त्ववज्ञातं परे परिभवन्त्युत ॥ ३४ ॥
राज्ञः परैः परिभवः सर्वेषामसुखावहः ।तस्माच्छत्रं च पत्रं च वासांस्याभरणानि च ॥ ३५ ॥
भोजनान्यथ पानानि राज्ञे दद्युर्गृहाणि च ।आसनानि च शय्याश्च सर्वोपकरणानि च ॥ ३६ ॥
गुप्तात्मा स्याद्दुराधर्षः स्मितपूर्वाभिभाषिता ।आभाषितश्च मधुरं प्रतिभाषेत मानवान् ॥ ३७ ॥
कृतज्ञो दृढभक्तिः स्यात्संविभागी जितेन्द्रियः ।ईक्षितः प्रतिवीक्षेत मृदु चर्जु च वल्गु च ॥ ३८ ॥
« »