Click on words to see what they mean.

इन्द्र उवाच ।एवंवीर्यः सर्वधर्मोपपन्नः क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः ।पाल्यो युष्माभिर्लोकसिंहैरुदारैर्विपर्यये स्यादभावः प्रजानाम् ॥ १ ॥
भुवः संस्कारं राजसंस्कारयोगमभैक्षचर्यां पालनं च प्रजानाम् ।विद्याद्राजा सर्वभूतानुकम्पां देहत्यागं चाहवे धर्ममग्र्यम् ॥ २ ॥
त्यागं श्रेष्ठं मुनयो वै वदन्ति सर्वश्रेष्ठो यः शरीरं त्यजेत ।नित्यं त्यक्तं राजधर्मेषु सर्वं प्रत्यक्षं ते भूमिपालाः सदैते ॥ ३ ॥
बहुश्रुत्या गुरुशुश्रूषया वा परस्य वा संहननाद्वदन्ति ।नित्यं धर्मं क्षत्रियो ब्रह्मचारी चरेदेको ह्याश्रमं धर्मकामः ॥ ४ ॥
सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयन्नेव यत्नात् ।चातुर्वर्ण्यस्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौरसैश्च ॥ ५ ॥
सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् ।स्वं स्वं धर्मं ये न चरन्ति वर्णास्तांस्तान्धर्मानयथावद्वदन्ति ॥ ६ ॥
निर्मर्यादे नित्यमर्थे विनष्टानाहुस्तान्वै पशुभूतान्मनुष्यान् ।यथा नीतिं गमयत्यर्थलोभाच्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ॥ ७ ॥
त्रैविद्यानां या गतिर्ब्राह्मणानां यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् ।एतत्कर्म ब्राह्मणस्याहुरग्र्यमन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ॥ ८ ॥
चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव ।ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथंचन ॥ ९ ॥
अन्यथा वर्तमानस्य न सा वृत्तिः प्रकल्प्यते ।कर्मणा व्यज्यते धर्मो यथैव श्वा तथैव सः ॥ १० ॥
यो विकर्मस्थितो विप्रो न स सन्मानमर्हति ।कर्मस्वनुपयुञ्जानमविश्वास्यं हि तं विदुः ॥ ११ ॥
एते धर्माः सर्ववर्णाश्च वीरैरुत्क्रष्टव्याः क्षत्रियैरेष धर्मः ।तस्माज्ज्येष्ठा राजधर्मा न चान्ये वीर्यज्येष्ठा वीरधर्मा मता मे ॥ १२ ॥
मान्धातोवाच ।यवनाः किराता गान्धाराश्चीनाः शबरबर्बराः ।शकास्तुषाराः कह्वाश्च पह्लवाश्चान्ध्रमद्रकाः ॥ १३ ॥
ओड्राः पुलिन्दा रमठाः काचा म्लेच्छाश्च सर्वशः ।ब्रह्मक्षत्रप्रसूताश्च वैश्याः शूद्राश्च मानवाः ॥ १४ ॥
कथं धर्मं चरेयुस्ते सर्वे विषयवासिनः ।मद्विधैश्च कथं स्थाप्याः सर्वे ते दस्युजीविनः ॥ १५ ॥
एतदिच्छाम्यहं श्रोतुं भगवंस्तद्ब्रवीहि मे ।त्वं बन्धुभूतो ह्यस्माकं क्षत्रियाणां सुरेश्वर ॥ १६ ॥
इन्द्र उवाच ।मातापित्रोर्हि कर्तव्या शुश्रूषा सर्वदस्युभिः ।आचार्यगुरुशुश्रूषा तथैवाश्रमवासिनाम् ॥ १७ ॥
भूमिपालानां च शुश्रूषा कर्तव्या सर्वदस्युभिः ।वेदधर्मक्रियाश्चैव तेषां धर्मो विधीयते ॥ १८ ॥
पितृयज्ञास्तथा कूपाः प्रपाश्च शयनानि च ।दानानि च यथाकालं द्विजेषु दद्युरेव ते ॥ १९ ॥
अहिंसा सत्यमक्रोधो वृत्तिदायानुपालनम् ।भरणं पुत्रदाराणां शौचमद्रोह एव च ॥ २० ॥
दक्षिणा सर्वयज्ञानां दातव्या भूतिमिच्छता ।पाकयज्ञा महार्हाश्च कर्तव्याः सर्वदस्युभिः ॥ २१ ॥
एतान्येवंप्रकाराणि विहितानि पुरानघ ।सर्वलोकस्य कर्माणि कर्तव्यानीह पार्थिव ॥ २२ ॥
मान्धातोवाच ।दृश्यन्ते मानवा लोके सर्ववर्णेषु दस्यवः ।लिङ्गान्तरे वर्तमाना आश्रमेषु चतुर्ष्वपि ॥ २३ ॥
इन्द्र उवाच ।विनष्टायां दण्डनीतौ राजधर्मे निराकृते ।संप्रमुह्यन्ति भूतानि राजदौरात्म्यतो नृप ॥ २४ ॥
असंख्याता भविष्यन्ति भिक्षवो लिङ्गिनस्तथा ।आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन्कृते युगे ॥ २५ ॥
अशृण्वानाः पुराणानां धर्माणां प्रवरा गतीः ।उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥ २६ ॥
यदा निवर्त्यते पापो दण्डनीत्या महात्मभिः ।तदा धर्मो न चलते सद्भूतः शाश्वतः परः ॥ २७ ॥
परलोकगुरुं चैव राजानं योऽवमन्यते ।न तस्य दत्तं न हुतं न श्राद्धं फलति क्वचित् ॥ २८ ॥
मानुषाणामधिपतिं देवभूतं सनातनम् ।देवाश्च बहु मन्यन्ते धर्मकामं नरेश्वरम् ॥ २९ ॥
प्रजापतिर्हि भगवान्यः सर्वमसृजज्जगत् ।स प्रवृत्तिनिवृत्त्यर्थं धर्माणां क्षत्रमिच्छति ॥ ३० ॥
प्रवृत्तस्य हि धर्मस्य बुद्ध्या यः स्मरते गतिम् ।स मे मान्यश्च पूज्यश्च तत्र क्षत्रं प्रतिष्ठितम् ॥ ३१ ॥
भीष्म उवाच ।एवमुक्त्वा स भगवान्मरुद्गणवृतः प्रभुः ।जगाम भवनं विष्णुरक्षरं परमं पदम् ॥ ३२ ॥
एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ ।कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ॥ ३३ ॥
अन्यायेन प्रवृत्तानि निवृत्तानि तथैव च ।अन्तरा विलयं यान्ति यथा पथि विचक्षुषः ॥ ३४ ॥
आदौ प्रवर्तिते चक्रे तथैवादिपरायणे ।वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥ ३५ ॥
« »